________________
पीठिका - [भा. १४७] [भा.१४७] संवच्छरेणाविनतेसि आसीजोगाणहानी दुविहे बलंमि ।
जेयाविधिज्जाइ अनोववेयानद्धम्मया सोहयएतएवि ।। वृ-तेषामादितीर्थकरवर्त्तिनांसाधूनां द्विविधै बले शारीर बले धृतिबलेच अत्यंतमुपचयप्राप्ते सति संवत्सरेणापिसंवत्सरप्रमाणमपितपः कुर्वतां न योगानांसंयमव्यापाररुपाणां हानिरासीत्मध्यवतीर्थकरतीर्थवर्त्तिनां द्विविधमपि बलं क्रमेणानंतभागहीनमनंतभागहीनम् पश्चिमतीर्थकरतीर्थवर्त्तिनामनंतहीनमतोमध्यमकानांसंवत्सरप्रमाणंतपःकुर्वतांमहतीयोगहानिरितितेषामष्टमासिकमुत्कृष्टंतपःकर्म व्यवस्थापितंपश्चिमतीर्थकरतीर्थवर्त्तिनांतदपिकुर्वतां योगहानिरितिषण्मासिकमुत्कृष्टंतपःकर्म तेषा प्रवर्तितं तदेवमुक्तंप्रायश्चित्तवैषम्ये कारणंसंप्रतितुल्यांविशोधिप्रतिपादयति ।जेयावीत्यादियेचापि मध्यमतीर्थकरतीर्थवर्त्तिनोपश्चिमतीर्थकरतीर्थवर्त्तिनश्चधैर्याद्यनुपपेता धैर्येणधृतिबलेन आदिशब्दात् संहननबलेन च कालदोषतोऽनुपपेताः तएवित्ति तकानपि तद्धर्माता तेषामिव आदितीर्थकरतीर्थवर्तिनामिव धर्मोऽशठत्वादिकः स्वभावो येषां तेतद्धर्माणस्तभावः तद्धर्मातासाशोधयति इयमत्र भावनाइहअशठभावेनानिगृहितबलवीर्यतया यथाशक्तितपःकर्मणिप्रवृत्तिर्विशोधेरांतरंकारणंतच्च बाह्यतपः कर्मणो वैषम्येपि सर्वेषामप्यविशिष्टमतः सर्वेषां तुल्या विशोधिः युक्तं चैतत् तथाहि प्रथमतीर्थकर तीर्थेपिन सर्वेषां देहबलंधृतिबलंचसमानमथचसर्वेपामप्यशठभावतया प्रवृत्तेस्तुलया विशोधिरेवमत्रापिभावनीयमित्यदोषः । अत्रैव निदर्शनमाह - [भा.१४८] पथ्यगाजेपुरा आसि हीनमानाउ तेधुना ।
मानभंडाणिधन्नाणि सोहे जाणेतहेवय ।। वृ-ये पुरापूर्वकाले प्रस्थकआसीरन्तेकालदोषतःक्रमेणहीनाहीनतराजायमानाअत्यंतहीनमाना जातास्तथा धान्यादिभांडानि प्रस्थकादिपरिमाणपरिछेद्यानि तथैव संख्याव्यवहारस्व सर्वदाप्यविशिष्टत्वात् एवमिहापि प्रायश्चित्तानां वैषम्येपि तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि प्रस्थकदृष्टांतेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः, उक्तमारोपणाप्रायश्चित्तमिदानी प्रतिकुंचनाप्रायश्चित्तमाह - [भा.१४९] दव्वे खेत्तेकालेभावे पलिउंचणा चउविगप्पा ।
चोयगकप्पारोवण इहइंभणिया पुरिसजाया ।। वृ-प्रतिकुंच्यते अन्यथा प्रतिसेवितमन्यथाकथ्यते, ययासा प्रतिकुंचनासाचतुर्विधातद्यथा द्रव्ये द्रव्यविषयाएवं क्षेत्रेकालेभावेचअत्रपरस्यप्रश्रमभिधित्सुराहचोयगत्ति । अत्रचोदकोब्रूतेननुकल्पेपि प्रायश्चित्तमभिहितं,व्यवहारेपितदेवप्रायश्चित्तमभिधीयते इतिद्वयोरप्यध्ययनयोर्विशेषाभावः अत्रार्थे सूरिवचनं । कप्पारोवणेत्यादि । कल्पेकल्पाध्ययनेकल्पितानांमूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानमिहव्यवहाराध्ययनेभणितं,इंइतिपादपूरणेइजेराः पादपूरणेइति वचनात्,सानुस्वारताप्राकृतत्वात् प्राकृते हि पादांते सानुस्वारता भवतीति किमुक्तं भवति । कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तंनतु दानमिह तु दानं भणितमिति विशेषः, तथा कल्पाध्ययने प्रायश्चित्तार्हाः पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः एष गाथासंक्षेपार्थः सांप्रतमेनामेव गाथां ग्याचिख्यासुः प्रथमतो द्रव्यादिभेदयभिन्नांप्रतिकुंचनांव्याख्यानयति - [भा.१५०] सचिते अचित्तंजनवयपडिसेवियं तुअद्धाणे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org