________________
५२
व्यवहार -छेदसूत्रम्-१तुरेवकारार्थो भिन्नक्रमश्च स चैवं योजनीयस्तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवह्रियते इति व्यवहरणं बहुलवचनात्कर्मण्यनट् व्यवहरणीयमिति भावः किंचेत्यत आह धान्यपिटकमिव धान्यप्रस्थक इव किमुक्तं भवति येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्तव्यो न पुरातनोनाप्यन्यः स्वमतिपरिकल्पितस्तथाभगवतापितीर्थकरणयेन छद्मस्थकालेयावत्प्रमाणमुत्कृष्टं तपःकर्म कृतं तस्य तीर्थ आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं नाधिकमन्यथा राजाज्ञाखंडनतोराजप्रयुक्तदंडस्यचभगवदाज्ञाखंडनतःसंसारदंडस्यप्रवृत्तः एतमेवधान्यपिटकदृष्टांतं भावयति। [भा.१४३] जोजया पत्थिवो होइ सोतया धन्न पत्थगं ।
ठावे अन्नपुरिल्लेणंववहरते यदंडए ।। वृ-योयदापार्थिवः पृथिवीपतिर्भवतिसतदास्वकालंधान्यंप्रस्थकमन्यंस्थापयति, तस्मिंश्चस्थापिते ये पुरिल्लेणं-ति, पुरातनेनोपलक्षणमेतत्स्वमतिपरिकल्पितेन वा व्यवहरंतितान्तथाव्यवहरतो दंडयति एवं तिर्थकृदपि भगवान यो यावत प्रमाणमुत्कृष्टं तपःकर्म छद्मस्थकाले कुर्वन् तपः कर्मपरिमाणं व्यवस्थापयतिसस्वतीर्थे तावत्प्रमाणादधिकंतपःकर्मव्यवहारतः संसारदंडेनदंडयतितस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति । अथ कस्य तीर्थे कियत्प्रमाणंतपःकर्मेत्यत आह - [भा.१४४] संवच्छरंतु पढमे मज्झिमगाणठ्ठमासियं होइ ।
छम्मासपच्छिमस्स उमानं भणियंउक्कोसं ।। वृ- प्रथमे प्रथमतीर्थकरकाले मानं तपःकर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव तुरेवकारार्थः मध्यमकानांद्वाविंशतितीर्थकृतांतपःकर्मपरिमाणमुत्कृष्टंभवत्यष्टमासिकमष्टमासप्रमाणं, पश्चिमस्य तुभगवतोवर्द्धमानस्वामिनः तपः कर्मपरिमाणमुत्कृष्टंभणितंषण्मासाः अत्रैवभूयः शिष्यशंकामाह[भा.१४५] पुनरवि चोएइ ततो पुरिमा चरमा यविसमसोहीया ।
किह सुझंतीतेऊचोयग इणमो मुणसुवोच्छं ।। वृ- एवमनंतरोदिते सूरिणाभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति यदि नामैवं ततः पूर्वादितीर्थकरतीर्थवर्तिनश्चरमाः पश्चिमतीर्थकरतीर्थवर्त्तिनो विषमशोधिका विषमप्रायश्चित्ता अभवन ततः कथं ते विषमशोधिका अविशेषेण शुद्ध्यंति सर्वात्मना शुद्धिमासादयंति न खलु कारणवैषम्ये कार्यमविषमं दृष्टमत्र तु विषमं प्रायश्चित्तं विशोधिस्तु सर्वेषामप्यविशेषेणतुल्या, ततो दुर्घटमेतदिति भावः । अत्रसूरिय॑त् प्रायश्चित्तवैषम्ये कारणं यथा च कारणविषमतायामपि तुल्या विशोधिस्तदेतत् । प्रतिपादयिषुःप्रथमतःप्रायश्चित्तवैषम्यकारणमभिधित्सुरिदमाहचोयगेत्यादिहेचोदकउपपन्नप्रश्नकारिन् प्रायश्चित्तवैषम्येइदंवक्ष्यमाणकारणंवक्ष्ये तच्चवक्ष्यमाणमवहितमनाः श्रृणु, प्रतिज्ञातमेव निर्वाहयति। [भा.१४६] कालस्स निद्धायाए देहबलं धिइबलं वजपुरिमे ।
तदनंतभागहीनं कर्मणजा पच्छिमाअरिहा ।। वृ-पुरिमेपूर्वे आदितीर्थकरतीर्थेकालस्य स्निग्धतयाप्राणिनांदेहबलंशारीरंबलंतदुपष्टंमतोधृतिबलं च यत, आसीत् तत् अवसर्पिणीकालतस्य तथा स्वभावतया क्रमेण प्रतिक्षणमनंतभागहीनमनंतभागहीनं एतत्तावदायातं यावत्पश्चिमोभगवानर्हन् वर्द्धमानस्वामी ततः शारीरबलस्यधृतिबलस्य च. विषमत्वात् विषमं प्रायश्चित्तं तथाचाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org