________________
५०
व्यवहार - छेदसूत्रम्-१___ अनंतवनस्पतिकायिकं संघट्टयति मासगुरु परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु, द्वित्रि दिवसादि निरंतरसंघट्टनादिषूत्तरोत्तरेकैकस्थानवृद्धितः सप्तमिर्दिवसैर्मूलं, द्वींद्रियं संघट्टयति चतुर्लघु परितापयति चतुर्गुरुअपद्रावयतिषट्लघु, अत्रद्वयादिदिवसनिरंतर संघट्टनादिषुषड्भिर्दिवसैर्मूलं,त्रींद्रियं संघट्टयति चतुर्गुरुपरितापयतिषट्लघुअपद्रावयतिषट्गुरुअत्रपंचभिदिवसैर्मूलं चतुरिंद्रियं संघट्टयति षट्लघु, परितापयतः षट्गुरु अपद्रावयतोमासिकछेदः अत्रचतुर्भिर्दिवसैर्मूलंपंचेंद्रियंसंघट्यतः षट्गुरु परितापयतःच्छेदापद्रावयतोमूलमत्रद्वयोर्दिवसयोरनवस्थाप्यंत्रिषु दिवसेषुपारांचितमिति, तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्चित्तमधुना संयोजनाप्रायश्चित्तं वक्तव्यं; अस्मिंश्च व्याख्याते यतः प्ररुपणापृथक्त्वमित्येतदपिद्वारंव्याख्यातंद्रष्टव्यंतत्रचोदकः संयोजनादीनांभेदानांप्ररुपणा पृथक्त्वमाक्षिपन्नाह - [भा.१३६] पडिसेवणं विनाखलु संजोगारोवणा न विजंति ।
मायाचियपडिसेवा अइप्पसंगोयं इति एक्कं ।।। वृ-इहप्रायश्चित्तंसर्वमुत्पद्यतेप्रतिसेवनातो, नखलुमूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनांवा विना क्वापि प्रायश्चित्तः संभवः पडिसेवियंमि दिजइ पच्छित्तं इहरहाउपडिसेहो इति वचनात् ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तंच प्रतिसेवनामंतरेणनभवतीतितयोः प्रतिसेवनायामेवांतर्भाव: प्रतिकुंचनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुंचना नाम माया तथा चोक्तं पलिउंचणंति य मायत्तियनियडित्तियएगट्टाए इति माया च प्रतिसेवना तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि अन्यथैवमतिप्रसंगआपद्यते, तथाहि संयोजनादीनि त्रीणि प्रायश्चितानि प्रतिसेवनारुपाणि भवंत्यपि प्रतिसेवना भवंति ततः प्रतिसेवनापि न प्रतिसेवना स्यात् विशेषाभावात् अनिष्टं चैतत् तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, नशेषाणीतिएव चोदकेनाक्षिप्ते प्ररुपणापृथक्त्वेसूरिरुत्तरमाह - [भा.१३७] एगाहिगाणवि नाणत्तं केत्तियाव दिजंति ।
आलोयणाविहीविय इयनाणत्तं चउण्हंपि ।। वृ- एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिंडादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि तान्येकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि अध्यात्मादित्वादिकणितिव्युत्पत्तेः तेषामप्येकाधिकारिणांनानात्वं नपुनरैकाधिकारितया एकत्वमिति प्रज्ञापनाय तदर्थंसंयोजनाप्रायश्चित्तं पृथगुच्यतेनानात्वमेव गाथाद्वयेनदर्शयति ।। [भा.१३८] सेज्जायरितिपिंडे याउदउल्लेखलुतहा अभिहडेय ।
आहाकम्मेय तहा सत्तउसागारिए मासा ।।। वृ-केनापिसाधुना प्रथमतःशय्यायरपिंडउपभुक्ततस्मिन्ननालोचितएव तदनंतरमुदकार्दमासेवितं, ततोभ्याहतंतदनंतरमाधाकर्मिकंएतानिचत्वार्यप्येकाधिकारिकाणिअधिकृतएव शय्यातरपिंडदोषे अनालोचितेशेषदोषप्रायश्चित्तानां संभवात् एतेषां चैकाधिकारिकाणामपि नानात्वं नतु शय्यातरपिंडे एवशेषाण्यंतर्भवंति, ततःसर्वाण्यपिपृथगालोचनीयानिन केवलएवैकः शय्यातरपिंडइतिपरिज्ञानाय संयोजनादीतेतत्रशय्यातरपिंडेमासलघुउदका!पिमासलघुस्वग्रामातेपिमासलघुआधाकर्मिक चत्वारो गुरुमासाः गुरुगा आहय इति वचनात् एवं शय्यातरपिंडे अधिकृते संयोजनाप्रायश्चित्तं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org