________________
४८
व्यवहार - छेदसूत्रम्-१. उच्चारप्रश्रवणखेलमल्लकादिरूपः आर्यिकाणामधिको चारकः उत्कृष्टोऽक्षाः संस्तारक एकांगिका इतरो वा, द्वितीयपदे पुस्तकपंचकं फलकंच उक्तंच -
अक्खासंथारो वादुविहो एगंगिको व इयरो वा ।
बिइय पय पोत्थपनगंफलगंतह होइ उक्कोसो ।। तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु जधन्यं न प्रत्युपेक्षते पंचरात्रिदिवानि; दोषैः प्रत्युपेक्षतेमासलघु पोसहिय तवे य तहा इति पोषं दधाति इति पोषधं अष्टमी पाक्षिकादि, पोषधे भवं पौषधि तच्च तत् तपश्चर्या पौषधिकतपरतस्मिन्नक्रियमाणे इतिसामर्थ्यात्गम्यते, सामान्यतोमासनिष्पन्नंप्रायश्चित्तमितियोजना, तद्यथाअष्टम्यांचतुर्थं न करोति मासलघु पाक्षिके न चतुर्थं करोतिमासगुरु चतुर्मासके षष्ठस्याकरणे चतुसिलघु सांवत्सरिके अष्टमं न करोतिचतुर्मासगुरु, तथा एतेष्वेव अष्टमीपाक्षिकादिपुचैत्यानां जिनबिंबानांच शब्दात्ये अन्यस्यां वसतौ सुसाधवस्तेषामप्यवंदनेमासलधुतथायेचैत्यभवनस्थितावैकालिकंप्रतिक्रम्य अकृतेआवश्यके प्रभातेच कृते आवश्यके यदिचैत्यानिनवंदंते तेषामपिमासलघुउक्तंचास्यैव व्यवहारस्य चूर्णौ एएसु चेव अट्टमीमादीसुचेइयाइंसाहुणो वाजे अणाए वसहीए ठिया तेन वंदति मासलघु जइचेइयघरे ठिया वेयालियं कालं पडिक्कंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वंदंति तो मासलहु इति, सांप्रतमेनामेव गाथांव्याचिख्यासुः प्रथमतः सज्झायस्स अकरणे इत्येतत् व्याख्यानयति । [भा.१३०] सुतत्थपोरिसीणं अकरणेमासो उहोइगुरुलहुगो ।
चाउक्कालंपोरिसिउवायणंतस्सचउलहगा ।।। वृ- सूत्रार्थपौरुष्योः सूत्रपौरुष्याः अर्थपीरुष्या इत्यर्थः अकरणं यथाक्रमं गुरुमासो लघुमासः, अर्थपौरुषी हिप्रज्ञादिविशिष्टसामग्यपेक्षासूत्रायत्ताच, सूत्रपौरुषीत्वभिनवदीक्षितेनापिजडमतिनापि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु, द्वयोः सुत्रपौरुष्योरकरणे दो लघुमासौ तिसृणां पौरुषीणामकरणे त्रयो लघुमासाइतिसामर्थ्यात्प्रतिपत्तव्यं, चाउक्कालमित्यादिचतुःकालं दिवारात्रिगतंप्रथमचरमप्रहररुपेषु चतुर्यु कालेषु सुत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः चतुर्लघुका श्चत्वारो लघुमासाः संप्रति काउसग्गेइतिव्याख्यानयति ।। [भा.१३१] जइ उसग्गेन कुणइतइमासा निसणए निवणेय ।
सव्वंचेवावस्संन कुणइतहियं चउलहंति ।। वृ-आवश्यकेप्राभातिकोवैकालिकेवा यावतःकायोत्सर्गान् न करोतिततिमासास्तस्य प्रायश्चित्तं, एकं चेन्न करोति एकोलघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन्न करोति त्रयो लघुमासा तथा निषण उपविष्टो निर्वन्नः पतितः सुप्त इत्यर्थः । चशब्दात् प्रावरण प्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु, यदि पुनःसर्वमेवावश्यकंनकरोतिचतुर्लघुचत्वारोलघुमासाप्रायश्चित्तं ।अधुना अपडिलेहा इतिव्याचष्टे ।। [भा.१३२] चाउम्मासुक्कोसे, मासियमज्झे यपंचउजहन्नो ।
उवहिस्स अपेहाए एसा खलु होइआरुवणा ।। वृ- उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरुपस्य उपधेरप्रेक्षायामप्रत्युपेक्षायां चत्वारो लघुमासा मध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org