SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४६ व्यवहार - छेदसूत्रम् - १ प्रस्तावादुक्ता यावता वक्ष्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः यथा दंडकग्रहणेऽभिहितं तथा दंडकनिक्षेपेऽपि तथा वक्तव्यं, नवरं निक्षेपेऽधस्तात् भूमेरुपरि च दंडशिरःसंपर्कविषयभित्तिप्रदेशे प्रमार्जन कर्त्तव्या । तथा वसतेर्निगेच्छन् यद्यावश्यकी न करोति वसतौ प्रविशन्वा नैषेधिकी तत आवश्यक्या अकरणेनैषेधिक्या अकरणेच प्रत्येकं प्रायश्चित्ते रात्रिंदिवपंचकं तथा गुरुणं च अप्पनामे इति अप्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं ततोऽयमर्थः अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्निर्गतो भूयः प्रतिश्रये प्रविशन् नमो खमासमणाणमिति न ब्रूते प्रणामं वा न करोति नापि हस्तानां क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकं ॥ वेंटियगहनिक्खेवे निट्टीवणा आयवो य छायं च । थंडिल्लकण्हभोमेगामे राइंदिया पंच ।। [ भा. १२६ ] वृ- संस्तारकं वेटलिकाया ग्रहणे निक्षेपे च प्रत्येकं दंडकं इव सप्तभंगकं तत्रापि दंडक इवाद्येषु त्रिषु भंगकेषु पश्चादनुपूर्व्या यथोत्तरं तपः कालविशेषिते प्रत्येकं लघुमास उत्तरेषु त्रिषु भंगकेषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमे तु भंगे शुद्धः निट्ठीवणादित्त निष्टीवनादौ इह साधवो द्विधा गच्छगता गच्छविनिर्गताश्च तत्र ये गच्छनिर्गतास्ते नियमादनिष्टीवका औपग्राहिकमल्लकाद्युपकरणासंभवात् गच्छगता अपि ये विधिना निष्ठीव्यंति, ते अनिष्ठीवका एव, न प्रायश्चित्तविषयाः । अविधिना खेलमल्लकनिष्टीवने दंडक इव सप्त मंगा दंडक इवैव चाद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमभंगवर्त्तिनस्त्वनिष्ठीवका एव विधिना निष्टीवनात् उपरितनेष्वपि च त्रिषु भंगेषु यदि भूमौ निष्ठीवति, तदा मासलघु, यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते, तन्निष्पन्नंच प्रायश्चित्तं, आदि शब्दात् कंडूयनपरिग्रहः कंडूयनेपि हि दंडक इव सप्तभंगकं तथैव प्रायश्चित्तविधिः तथा वस्त्रादिकमातपात छायं छायाया वा आतपे संक्रामयन्न प्रत्युपेक्षतेन प्रमार्जयतीत्यादयो पूर्ववत् सप्तभंगाः। पूर्ववदेव चाद्यैषु षट्सु भंगकेषु प्रायश्चित्तविधिः सप्तमे भंगे शुद्धः, संप्रति लाघवमपेक्षमाणच्छेदार्हमपि प्रायश्चित्तमत्रैव विषये प्रतिपादयति [ भा. १२७] एएसिं अन्नयरं, निरंतरं अतिचरेज्ञ्ज तिक्खुत्तो । निक्कारणम गिलाणे पंच उ राइंदिया छेदो ।। वृ. एतेषामनंतरोदितानां रात्रिदिवपंचकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरमतिचरेत् त्रित्रिकृत्वस्त्रीन् वारान् तदा तत्पर्यायस्य छेदः क्रियते पंचरात्रिंदिवानि उपलक्षणमेतत्येष्वनंतरोदितेषु स्थानेषुमासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरं त्रीन्वारानतिचरति तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यं, संप्रति मासिकानि प्रायश्चित्तानि बिभणिपुराह - [ भा. १२८ | हरियाले हिंगुलए मनोसिले अंजनेय लोणेत्थ । मीसगपुढविक्काए जह उदउल्ले तहा मासो ॥ वृ- यथा उदकार्ये तथेति वचनात् एवमत्र प्रतिपत्तव्यं, यथा उदकार्द्रे उदकमृक्षिते करे मात्रके वा भिखां गृह्णतः प्रायश्चित्तं लघुर्मासः, तथा हरिताल हिंगुलक मनःशिलाः प्रतीताः, अंजनं सौवीरांजनादि लवणं सामुद्रादि एते सचित्त पृथिवीकायभेदाः, उपलक्षणमेतत्तेन शुद्ध पृथिव्यूषगेरुकवणिका सेटिका सौराष्ट्र क्यादयोपि सचित्तपृथिवीकायभेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताचित्तरूपः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy