SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. १२१] ४५ पादश्चिंत्यते तावत्कालप्रमाणः कायोत्सर्गे उच्छ्वास इति तत्कालमुच्छ्वासानां कायोत्सर्गे ज्ञातव्यं, अथ ध्यानं योगनिरोधात्मकं, तत्र कायोत्सर्गे किं ध्यानं उच्यते ध्येयो योगनिरोध इति पूर्वमहर्षिवचनात् तच्च योगनिरोधात्मकं ध्यानं त्रिधा, तद्यथा काययोगनिरोधात्मकं, वाग्योगनिरोधात्मकं मनोयोगनिरोधात्मकं च तत्र कायोत्सर्गे किं ध्यानं ? उच्यते त्रिविधमपि मुख्यतस्तु मूकायिकं तथा चाह कायचेद्धुं निरुंभित्ता मनं वायं च सव्वसो । भा. १२२ वट्टइकाइए ज्झाणे, सुहुमुस्सासवं मुनी ।। वृ- कायचेष्टां कायव्यापारं तथा मनोवाचं सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते, ततः कायोत्सर्गस्थो मुनि सूक्ष्मोच्छवासवान् उपलक्षणमेतत् सूक्ष्मदृष्टिसंचारादिवांश्च न खलु कायोत्सर्गे सूक्ष्मोच्छवासादयो निरुध्यते, तन्निरोधस्य कर्तुमशक्यत्वात्वर्त्तते, कायिके ध्याने एतच्चैवमुच्यते तस्य स्पष्टमुपलक्ष्यमाणत्वात् यावता पुनर्वाचिकमानसे अपि ध्याने द्रष्यव्ये तथा चाहन विरुज्झति उस्सग्गज्झाणा वाइयमानसा । तीरिए उस्सग्गे तिण्हमन्नयरेसिया ।। [भा. १२३ ] वृ- न विरुध्येते उत्सर्गे कायोत्सर्गे ध्याने वाचिकमानसे वाङ्मनोयोगयोरपि विषयांतरतो निरुध्यमानत्वात् सूत्रेच द्वित्वेपि बहुवचनं प्राकृतत्वात् उक्तं च बहुवयणमिति तीरं संजातमस्येतितीरितः परिपूर्णे सति सम्यग्विधिना पारितस्तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत् । अन्यतमत् स्यात् । पुनस्त्रितयमपि भंगिकश्रुतगुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापारांतरे ध्यानत्रितयासंभवात्; अथ यथा कायोत्सर्गे किमन्येपि गुणाः संभवति किंवा नेति उच्यते, संभवतीति ब्रूमस्तथा चाह - मनसी एगग्गत्तं जनयइ देहस्स हणइ जडत्तं । काउस्सग्गगुणा खलु सुहदुहमज्झत्थया चेव ।। [ भा. १२४ ] वृ- कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खल्वमी तद्यथा कायोत्सर्गेः सम्यग्विधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकाग्रलंबनतां जनयति, तच्चैकाग्रत्वं परमं ध्यानं जं थिरमज्झवसाणं तं ज्झाणमिति वचनान् देहस्य शरीरस्य जडत्वं जाड्यं हंति विनाशयति, प्रयत्नविशेषतः परमलाधवसंभवात् तथा कायोत्सर्गस्थितानां वासीचंदनकल्पत्वात् सुखदुःखमध्यस्थता सुखदुःखे परैरुदीर्यमाणं रागद्वेषाकरणमन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् उक्तं व्युत्सग्गर्हिप्रायश्चित्तमिदानीं तपोर्ह वक्तव्यं, तपश्च रात्रिंदिवपंचकादारभ्य रात्रिंदिवपंचकादिवृध्धया तावन्नेयं यावत्षण्मासाः तत्र येषु स्थानेषु रात्रिंदिवपंचकतपसान्युपदर्शयतिः - [ भा. १२५ ] दंडगगहिनिक्खेवे, आवसियाए निसिहियाए य । गुरुणंच अप्पणामे, पंचराइंदिया होंति ।। 1 - दंडं गृह्णन् प्रत्युपेक्षतेन प्रमार्जयतीत्येको भंगः, न प्रत्युपेक्षते प्रमार्जयतीति द्वितीयः न प्रत्युपेक्षते न प्रमार्जयतीति तृतीयः प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः । तत्राद्येषु भंगकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषिते लघुर्मासः प्रत्येकं प्रायश्चित्तं, चतुर्थे चत्वारो भंगास्तद्यथा दुःप्रत्युपेक्षते दुःप्रमार्ज यति । १ । दुः प्रत्युपेक्षते सुप्रमार्जयति । २ । सुप्रत्युपेक्षते दुः प्रमार्जयति । ३ । सुप्रत्युपेक्षते सुप्रमार्ज यति । ४ । अत्राधेषु त्रिषु भंगेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषेतानि पंचरात्रिं दिवसानि प्रायश्चित्तं चतुर्थे भंगे शुद्धो विधिना प्रवृत्तेः, इहाद्यास्त्रयो भंगका मासलघुप्रायश्चित्तविषयाः, Jain Education International For Private & Personal Use Only 1 www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy