SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छंदसूत्रम् - १ वृ-यैराचार्यैरध्ययनानामुपलक्षणमेतदुद्देशकप्रभृतीनां च त्रितयं उद्देशसमुद्देशानुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पश्चातेषां प्रस्थापना यैराचार्यैरुपवर्ण्यते तेषां मतेनायमेवक्रम इति वाक्यशेषः, अतः प्राक् गाथायां पूर्वमुद्देशादयः उक्ताः पश्रात् प्रस्थापनेति, संप्रति सुत्तेवा इति वाशब्दसमुच्चितं दर्शयति ।। [ भा. ११७] ४४ सव्वेसु खलियादिसु ज्झाएजा पंचमंगलं । दो सिलोगेव चिंतेज्जा एगग्गो वाचितक्खणं ।। वृ- इह यदि बहिर्गमनं प्रयोजनानंतरप्रारंभे वा वस्त्रादेः स्खलनं भवति, आदि शब्दात् शेषापशकुनदुर्निमित्तपरिग्रहः तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयोजनव्याधातसूचकेषु समुद्गतेषु तत्प्रतिघातनिमित्तं पंचमंगलमष्टोच्छ्वासप्रमाणं नमस्कारसूत्रं ध्यायेत् यदिवा यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिंतयेत्, अथवा यावताकालेन द्वौ श्लोकौ चिंत्येते तत्क्षणं तावंतं कालं एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् ।। [ भा. ११८ ] बिइयं पुन खलियादिसु उस्सासा होति तहय सोलसय । तइयंमि उबत्तीसा चउत्थंमि न गच्छएअणं ।। वृ- द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याधातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गउच्छ्वासाः षोडश भवंति पोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः, तइमंपिउइत्यादि, तृतीयवारे तृतीयस्यां वेलायां स्खलितादिजातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति, उपलक्षणमेतत् नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यं भाविविधनसंभवात् संप्रति सुमिणदंसणे रातो इति व्याख्यानयन्नाह - भा. ११९] पाणवहमुसावादे अदत्तमेहूणपरिग्गहे । सुमिणे सयमेगंति अनुनऊसासाणन्भवेज्जासि ।। वृ- प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च स्वप्ने कृते कारिते अनुमोदिते च केवलं मैथुने कारितेऽनुमोदिते एवं स्वयं कृते इत्थीविप्परियासे इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात् कायोत्सर्गः प्रायश्चित्तं, तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छ्रासानां क्षपयेत् पंचविंशत्युच्छ्छ्रासप्रमाणं चतुर्विंशस्तवं चतुरो वारान् ध्यायेत् इति भावः अथवा अपरः प्रकारस्तमेव दर्शयति ।। [ भा. १२० ] महव्वयाई ज्झाएजा सिलोगे पंचविंशति । इत्थीविप्रयासे सत्तावीस सिलोइओ ।। वृ- महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् तेषामपि प्रायः पंचविंशतिश्लोकप्रमाणत्वात् यदिवा यान्तान्वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेत् स्त्रीविपर्यासे पुनः स्वप्नसंभूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकवान् अष्टोत्तरशतमुच्छ्वासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः, उत्सर्गे प्रमाणमेव निरुपयति ।। [ भा. १२१ ] पायसमाउसासा कालप्रमाणेण हांति नायव्वा एवं कालपमाणं काउस्सग्गे मुनेयव्वं ।। वृ- उच्छ्वासाः कालप्रमाणेन भवति ज्ञातव्याः पादसमाः किमुक्तं भवति यावत् कालेनै श्लोकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy