SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४४१ आचार्योपाध्यायभयतो न काचिदपि संयती आचारक्षतिमाचरति, यापि काचिदाचरति सापि प्रवर्तिन्या सावष्टंभं शिक्ष्यते । अथ शिक्ष्यमाणापि न प्रतिपद्यते । तत प्रवर्तिनी ब्रूतेआचार्यस्योपाध्यायस्य वाहं कथयिष्यामि ततः सा भीता प्रवर्तिन्या उपपाते तिष्ठति । एते आचार्योपाध्यायसंग्रहे गुणाः । : ३, मूलं : ७७, [भा. १५८३] सम्प्रति प्रवर्तिनीसंग्रहे गुणानाह [ भा. १५८४ ] मिहो कहाज्झड्डरवड्डरेहिं कंदप्पकिड्डा बउसत्तणेहिं । पुव्वावरे तेसु य निच्चकालं गिण्हतेनं गणिणी साहीणा ।। वृ- मिथः कथा परस्परं भक्तादिविकथाकरणं झड्ढर विड्ढनाम तेषु गृहस्थप्रयोजनेषु कुण्टलविंटलादिषु वाप्रवर्तनं एताभ्यां कन्दर्पः क्रीडाकन्दर्पोद्रेकजननी कायवाक्चेष्टा । बकुशत्वं शरीरोपकरणविभूषाकरणं एताभ्यां च तथा पूर्वरात्रे अपररात्रे च गणिन्या प्रवर्तिन्या स्वाधीना सती संगृह्यते । तथा तत्प्रवर्तिनीसंग्रहोऽपि साध्व्याः श्रेयान् एतदेव विभावयिषुर्लोकेष्वपि स्त्रियास्त्रिविधं संग्रहमाहजाया पिति व्वसा नारी दत्ता नारी पतिव्वसा । विहवा पुत्तवसा नारी नत्थि नारी सयं वसा ।। [भा. १५८५ ] वृ-जाता सती नारी पितुर्वशा पितुरायत्ताभवति । दत्ता परिणीता सती नारी पतिवशा भर्त्तुरायत्ता । विधवा मृतभर्तृका नारी पुत्रवशास्ति । एवं च सती नारी नास्ति कदाचनापि स्वयं वशा, अमुमेवार्थ प्रकारान्तरेणाह[भा. १५८६ ] जायं पिय रक्खंती मातापितिसासुदेवरादिनं । पितिभायपुत्तविहवं गुरुगणिगणिणीय अज्जंपि ।। - जातामपि नारी रक्षेतां मातापितरौ । दत्तां परिणीतां रक्षन्तिमातृपितृस्वस्त्र (श्वश्रू) देवरभर्त्रादयः । देवरग्रहणं स्वसुर (श्वशुर) भत्रदिरुपलक्षणं । विधवा पुनः पिता भ्राता पुत्रो वा । यदिजीवन्ति पित्रादयस्तर्हि सर्वेऽपि रक्षन्ति । एवमार्यिकामपि गुरुराचार्यो गणी उपाध्यायः गणिनी प्रवर्तिनी रक्षन्ति । एगानिया अपुरिसा सकवाडं परघरं तु नो पविसे । सगणे व परगणे वा पव्वतिया वीतिसंगहिया ।। आयरियउवज्झाया सययं साहुस्स संगहो दुविहो । आयरियउवज्झाया अज्जाण पवत्तिणी तइया ।। [ भा. १५८७ ] [ भा. १५८८ ] वृ- संगृह्णातीति संग्रहः संग्राहक इत्यर्थः साधोः सततं सर्वकालं संग्रहः संग्राहको द्विविधः आचार्योपाध्यायौ । आर्यिकाणां त्रिविधस्तद्यथा द्वावाचार्योपाध्यायौ तृतीया प्रवर्तिनी । अत्रैवापवादमाह [भा. १५८९] बितियपदे साधेरी जुणा गीयाय जइ खलु भवेज्जा । आयरियादी तिण्हवि असतीएन उद्दिसाविज्जति ।। वृ- द्वितीयपदे अपवादपदे सा प्रब्रजिता स्थविरा वयसा वृद्धा जीर्णा चिरकालप्रव्रजिता गीता उत्सर्गापवादसामाचारीकुशलतया गीतार्था यदि खलु भवेत् तत आचार्यादीनामाचार्योपाध्यायप्रवर्तिनीनां तिसृणामप्यभावे न संग्राहकमाचार्यमुपाध्यायं प्रवर्तिनीं वा उद्देशापयेत् दोषासंभवात् Jain Education International मू. (७८) भिक्खू य गणाओ अवकम्म मेहुणं पडिसेवेज्जा, तिनि संवच्छराणि तस्स तप्पत्तियं नां कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा, तिहिं संवच्छंरेहिं वीइकंतेहि चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसन्तस्स उवरयस्स पडिविरयस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेतए वा । वृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy