________________
४४२
व्यवहार - छेदसूत्रम् - १-३ / ७८
[भा. १५९०]
नवतरुणे मेहुण्हं कोई सेवेज्ज एस संबंधो । अच्चंतभक्खणादिव्व संगहो एत्थ विसए वा ।। अपरियाएव गणो, दिज्जइवृत्तंति मा अतिपसंगा । सेवियमपुनपज्जय दाहिंति गणं अतो सुत्तं ।।
[भा. १५९१]
वृ- पूर्वसूत्रे नवतरुणादिकः साधुरुक्तस्तत्र कोऽपि नवतरुणो मोहोदयवशात् मैथुनं सेवेत कृतमैथुनसेवाकस्य च यथाचार्यत्वादिकमुद्देष्टव्यं तथानेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः अब्रह्मणादेर्हेतोब्रह्मरक्षणादेर्हेतोब्रह्मरक्षणादिनिमित्तं संग्रह आचार्यादिकोऽनन्तरसूत्रेऽभिहितः । अत्रापि सूत्रे स एव संग्रहोऽभिधीयते इति । अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवसाचार्यादिपदानुज्ञानात्तत् एतत् श्रुत्वा मा अतिप्रसंगान्मैथुनं सेवित्वा अपूर्णे पर्याये गणं दास्यतीति तत एतन्निवारणार्थमिदं सूत्रम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या- भिक्षुर्गणात् अपक्रम्य मैथुनं प्रतिसेवते तत्तस्य त्रीणि संवत्सराणि यावत्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पते आचार्यत्वमुपाध्यायत्वं यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः, गणावच्छेदित्वं वा उद्देष्टुमनुज्ञातुंनापि तस्य कल्पते स्वयं धारयितुं, किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच्च प्रस्थितत्वमाभिमुखी भवनामात्रेऽपि भवति तत आह- अत्थि ते प्रवर्त्तमाने स्थितस्य वर्तमानस्य किंविशिष्टस्य सत इत्याह-उपशान्तस्य उपशान्तवेदोदयस्य तच्चोपशान्तत्वं प्रवृत्तिनिषेधादवसीयते तत आह उपरतस्य मैथुनप्रवृत्तेः प्रत्तिनिवृत्तस्य तच्च प्रतिनिवृत्तत्वं दाक्षिण्यवशादिमात्रतोऽपि भवति तत आह-मैथुनेच्छा प्रातिकूल्येन विरतः प्रतिविरतः तस्य तदपि च प्रतिविरतत्वं विकारादर्शनतो लक्ष्यते । तत आह-निर्विकारलेशतोऽपि मैथुनाभिलाषहेतुकारहितस्य कल्पते आचार्यत्वं यावद्गणावच्छेदित्वं वा उद्देष्टुं वा धारयितुं वा एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भावतो भाष्यकृदाह
[ भा. १५९२] दुविहो साविक्खियरो निरवेक्खो उदिने जाइणा पुच्छा । जोगं च अकाऊणं जाव सदेसादि सेवेज्जा ।।
- द्विविधो द्विप्रकारः खलु मैथुनसेवकः । तद्यथा-सापेक्ष इतरश्च । इतरो निरपेक्षः । तत्र निरपेक्षो य उदीर्णेवेदे याति अपगच्छत्यनापृच्छ्या यो वाऽयाति योगं यतनया योगमकृत्वा यदि वा स वैश्यादिकां सेवेत । एष त्रिविधोऽपि निरपेक्षः गुरुतीर्थकरापेक्षारहित्वात् ।
[भा. १५९३]
सावेक्खो उ उदिणो आपुच्छे गुरुं तु सो जति उवेहं ।
ता गुरुगा भवतित्ती सो व अनापुच्छए गच्छे ।।
वृ-यदि पुनरुदीर्णोदयप्राप्ते मोहे उदिते वेदेत्यर्थः । गुरुमापृच्छति स सापेक्षः । सह अपेक्षा गुर्वपक्षा यस्यास्ति स सापेक्ष इति व्युत्पत्तेः । तत्रापृच्छायां यदिस गुरुरूपेक्षां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति । स च साधुनापृच्छ्य गुरुं याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः । सा च पृच्छा त्रीन् वारान् कर्तव्या, । तथा चाह[ भा. १५९४ ]
अहवा सइदोवावी आयरिए पुच्छ अकडजोगी वा । गुरुगा तिनि उ वारे तम्हा पुच्छेज्ज आयरिए ।।
वृ- अथवा सकृदेकं वारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं गुरुकाः । अथ द्वौ वारो पृच्छति न तृतीयमपि वारं तदापि चतुर्गुरुकाः । अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वा गच्छति । तदानीमपि चतुर्गुरुकाः यत एवमेकं द्वौ वा वारावपृच्छायां प्रायश्चित्तं तस्मात् त्रीन् वारान् आचार्यान् पृच्छेत् लोकेऽपि तथा दर्शनात्तथा चाह
[भा. १५९५ ] बंधे यघाते यपमारणेय दंडेसु अन्नेसु य दारुणोसु य ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org