________________
उद्देशकः३, मूलं : ७३, [भा. १४८५]
४२३ इत्यर्थः । एष संयमकुशलः, कथंभूतः सन्नित्याह-गुणनिधिः संयमानुगता ये गुणास्तेषां निधिरिव तैः । परिपूर्ण इति भावः गुणनिधिः ।, तथा त्रिविधेन प्रकारेण मनोवाकायलक्षणेन सुविशुद्धो मनसाप्यसंयमानभिलाषान् भावेन च परिणामेन विशुद्ध इह लोकाद्याशंसादिप्रमुक्तत्वात् त्रिकरणभावविशुद्धः । अस्यैव गाथाद्वयस्य व्याख्यानार्थमाह[भा.१४८६] गिण्हइपडिलेहेडं, पमज्जियंतह य निसिरएयावि ।
उवउत्तो एसणाएसेजनिसज्जोवहाहारे ।। [भा.१४८७] एएसुंसव्वेसुंजोन पलुसए उसोसत्तिमं ।
जुंजइपसत्थेमेव उमणभासाकायजोगंतु ।। [भा.१४८८] सोइंदियाइयाणं निग्गहणंचेव तहकसायाणं ।
पाणातिवाइयाणंसंवरणंआसवाणंच ।। [भा.१४८९] झाणे अपसत्थ एयपसत्थज्झाणेय जोगमल्लीणो।
. संजमकुसलो एसो, विसुद्धो तिविहकरणेण ।। वृ-गाथाचतुष्टयमपिगतार्थम् । नवरं उवउत्तोएसणाए इत्यादि उपयुक्तएषणायां किं विषयायामित्याह-शय्यानिषद्योपध्याहारे शय्या उपाश्रयः निषद्या पीठफलकादिरुपा, स्थानादिरुपनिषद्या व्याख्यानं तु प्रागेवोक्तं । उपधिः पात्रनिर्योगादिराहारोऽशनादिरुपः । एषां समाहारो द्वन्द्वस्तस्मिन् तद्विषयायामित्यर्थः । ज्झाणे अपसत्थेत्यादिध्यानं द्विधा-अप्रशस्तंप्रशस्तंच, 1 अप्रशस्तमा रौद्रं च, प्रशस्तं धर्मशुक्लंच । तत्रप्रशस्तेध्याने धर्मशुक्लेरुपेचशब्दो भिन्नक्रमः प्रशस्तंयोगमालीनः सुविशुद्धो तिविहकरणेणंति उपलक्षणमेतत् । भावेनापि सविशुद्धः शेषं सुगमं उक्तः संयमकुशलः । प्रवचनकुशलमाह[भा.१४९०] सुत्तत्थहेउकारणवागरणसमिद्धचित्तसुयधारी ।
पोराणदुद्धरधरसुयरयणनिहाणभिवपुणो ।। [भा.१४९१] धारियगुणियसमीहिय निजवणा विउलवायणसमिद्धो ।
पवयणकुसलनिही पवयणहियनिग्गहसमत्थो ।। वृ-सूत्रार्थात्मकत्वात्यदिवासूत्रयुक्तोऽर्थोऽस्मिन्नतिसूत्रार्थः, नत्वक्षराधानारुढार्थमितिभावः । हेतुरन्वयव्यतिरेकात्मककारणमुपपत्तिमात्रंहेतुकारणेव्याक्रियतेप्रतिपाद्यतेअनेनेतिहेतुकारणव्याकरणं, समृद्धअनेकातिशयात्मकत्वात्चित्रमाश्चर्यभूतंअनन्तगमपर्यायात्मकत्वात् । एवंरुपंश्रुतंधारयतीत्येवं शीलःसूत्रार्थहतुकारणव्याकरणसमृद्धचित्रश्रुतधारी, तथापोराणमिवपोराणांयादृशमतीताद्धायामासीत् तादृशमिदानीमप्यतिबहुलत्वेनेतिभावः,दुर्द्धरं नयभङ्गाकुलतयाप्राकृतजनैरियितुमशक्यंधरतेऽर्थान् प्रवचनमिति पौराणदुर्द्धरः । तथा श्रुतरत्नस्य निदानमिव पूर्णः प्रतिपूर्णोऽर्थनिर्णयप्रदानादिना, तथा धारितंसम्यग्धारणाविषयीकृतंन विनष्टमितिभावः, ।गुणितंच बहुशः परावर्तितंतथा सम्यक्ईहितं पूर्वापरसम्बन्धेनपूर्वापराव्याहतत्वेनेत्यर्थः, मीमांसितंसमीहितंएतानिप्रवचन विशेषणानिइत्थंभूतेन प्रवचनेनतथातस्यैव प्रवचनस्य निर्यापणामीमांसिततयानिर्दोषत्वेन निश्चयतयानिर्दोषत्वेन निश्चयनं तया विपुलविशोधनार्थं बहूनामाचार्याणां सकाशे ग्रहणात् वाचना विपुलावाचना तया च समृद्धो धारितगुणितसमीहितनिर्यापणाविपुलवाचनासमृद्धः । तथा प्रवचनपरिज्ञानुगतानां गुणानां निधिरिख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org