________________
पीठिका - [भा. १०७ ]
४१
यस्याचार्यस्य मतेऽनवस्थितपरांचितयोरैक्याविवक्षणात् नवधा नवप्रकाश विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद्वर्त्तते प्रायश्चित्तं तत् षणामुपरितनानां बाह्यमेव तुशब्दस्यैवकारार्थत्वात, ततः छण्हं ठाणाण बज्झतु इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति उक्तं तदुभयार्हं प्रायश्चित्तमिदानीं विवेकाहमाह । -
[ भा. १०८ ]
कडजोगिण उ गहियं सेज्जासंथारभत्तपानं वा । अफासुएसणिजं नाउं विवेगो उपच्छित्तं ।।
वृ- कृतयोगी नाम गीतार्थः, कश्च गीतार्थ उच्यते वस्त्रपात्रपिंडशय्यैषणाध्ययनानि छेदसूत्राणिच सूत्रतोऽर्थतः तदुभयतो वा येन सम्यगधीतानि स गीतार्थः, तेन कृतयोगिना श्रुतोपदेशानुसारिपरिणामपरिणतेन शय्या उपाश्रयः उपाश्रयग्रहणात् तृणडगलकमल्लकादिपरिग्रहस्तेपामपिप्रायस्तत्रैव संभवात् संस्तारकः प्रतीतः, संस्तारकग्रहणं सकलौघिकोपग्रहिकोपलक्षणं भक्तमशनं, पानं सौवीरादि वाशब्दात् खादिय स्वादिमं वा गृहीतं पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादेर्विवेकः परित्यागः उक्तं च तं सेज्जाइयं विहिणा सुउवइठेणे विगिंचमाणो परिसुद्धा इति ।। पउरणपाणगामे किं साहु न वेति सावए पुच्छा नत्थि । वसहित्ति पकया ठिएसु अतिसेसियविवेगो ।।
[ भा. १०९ ]
वृ- केचित् साधवः प्रचुरान्नपाने ग्रामे गतास्तत्र वसतिर्दुः प्रापा नोचिता लभ्यते इति न स्थिताः ततः सावए पुच्छा इति षष्ठिसप्तम्योरर्थं प्रत्यभेदात् श्रावकस्य तथाभिनवदीक्षितस्य पार्श्वे पृच्छा अभवत् यथा किमिति साधवो नात्र तिष्ठति स प्राह नास्त्यत्र वसतिरिति कृत्वा ततः साधुषु गतेषु श्रावकैः पर्यालोच्य वसतिः प्रकृता प्रकृष्टा कृता तस्यां च कृतायां कालांतरेण तेवान्ये वा साधवः समागतास्तत्र स्थिता स्थितेषु च कतिपयदिनातिक्रमे अतिशेषितं ज्ञातं च सति ततः प्रायश्चित्तं विवेकः किमुक्तं भवति, ज्ञाते सति तां वसतिं परित्यजंतस्ते शुद्धा इति उपलक्षणमेतत्, तेन एतदपि द्रष्टव्यं ।। अशठभावेन गिरि राहु मेघ महिकारजः समावृते सवितरि उद्गतबुद्धया अनस्तमितबुध्ध्या वा गृहीतमशनादिकं पश्चात् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथम पौरुष्यां गृहीत्वा चतुर्थामपि पौरुषीं यावत् धृतमशनादि शठभावेनाऽशठभावेन वा अर्द्धयोजनातिक्रमेण नीतमानीतं वाशनादि तत्र विवेक एव प्रायश्चित्तमिति शठाशठयोश्चेदं लक्षणं इंद्रियविकथामायाक्रीडादि कुर्वन् शठः ग्लानसागारिकस्थंडिलभयादिकारणतोऽशठ इति उक्तं विवेकार्हं प्रायश्चित्तं संप्रति व्युत्सर्ग्रार्हमाह - गमनागमनवियारे सुत्तेवा सुमिणे दंसणे रातो । नावा नईसंतारे पायच्छित्तंवि उस्सग्गो ।।
[ भा. ११० ]
वृ- गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं भूयः स्वोपाश्रये गुरुपादमूले वा बहिः प्रदेशात् प्रत्यावचनमागमनं च गमनं च गमनागमनं समाहारो द्वंद्वः गमनपूर्वमागमनं गमनागमनं गमनं आगमनं च गमनागमने स्यादावसंख्येय इत्येकशेषः तयोस्तत्र यदा भक्ताद्यर्थमन्यस्मिन् ग्रामं गतः सन् विश्रमणनिमित्तमासितुकामोऽथवा यावन्नाद्यापि वेला च भवति तावत् प्रतीक्षितुकामो यदिवा प्रथमालिकां कर्तुकामो यदा शुन्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेपि ऐर्यापथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतरं कार्यसमाप्तौ भूयःस्वोपाश्रयप्रवेशे आगमनमात्रे कायोत्सर्गः, शेषेषु प्रयोजनेष्वपांतराले विश्रामणासंभवे गमनागमनयोरिति वियारे इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org