SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१विचारो नाम उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं कायोत्सर्गः सुत्ते वा इति सूत्रे सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रतिक्रमण श्रुतस्कंधांगपरिवर्त्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः, वासमुच्चये सुमिणेदंसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्री स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके उपलक्षणमेतत् दुःशकुनदुर्निमित्तेषु वा तत्प्रतिघातकरणाय कायोत्सर्गकरणंप्रायश्चित्तं; नावा नइसंतारे इति नौश्चतुर्दा तद्यथासमुद्रनौउद्यानी अवयानी तिर्यग्गामिनीचतत्रसमुद्रनौः प्रवहणंयेन समुद्रोलंध्यते,शेषास्तिस्त्रो नद्यां तत्रापि या नद्याः प्रतिश्रोतोगामिनी सा उद्यानी अनुस्त्रोतोगामिनी अवयानी या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यगामिनी तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तं नदीसंतारश्चतुर्विधस्तत्र पादाभ्यां त्रिधा तद्यथा संघट्टः, लेपस्तदुपरि च तत्र जंधार्द्धप्रमाणे उदकसंस्पर्श संघट्टः, नाभिप्रमाणे उदकसंस्पर्श लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो बाहड्डपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः व्युत्सर्गः कायोत्सर्ग इत्यर्थांतरमेष गाथासंक्षेपार्थः ।। सांप्रतमेनामेव गाथां विवरीषुर्येषुस्थानेषुगमनमागमनंगमनागमनंवा प्रतिक्रमणीयं संभवतियो विचारविषयोयत्प्रमाणंच तत्र कार्योत्सर्गप्रायश्चित्तं तदेतदुपदर्शयन्नाह - [भा.१११ भत्तेपाने सयणासणेय अरहंतसमणसेज्जासु । उच्चारे पासवणेपणवीसं होति ऊसासो ।। वृ- भक्ते पाने शयनासने च अरिहंतसमणे सेज्जासु इति शय्याशब्दः प्रत्येकमभिसंबध्यते अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां श्रमणोपाश्रये, गमनमागमनं च प्रतिक्रमणीयं संभवति उच्चारप्रश्रवणयोस्तुहस्तशताद्वहिर्गत्वा परिस्थापनेगमनागमनेंतर्भावः हस्तशताभ्यंतरतएव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापनेवाविचारविषयेएतेषुचसर्वेष्वपिस्थानेषुचकायोत्सर्गप्रायश्चित्तस्य प्रमाणंभवति पंचविंशतिरुच्छ्रासाः तत्रभक्ते पाने वाकथंगमनमात्रंप्रतिक्रमणीयंसंभवतीतिप्रतिपादनार्थमाह - [भा.११२] वीसमणअसइकाले पढमालियवास संखंडीए । वाइरियावहियठाएगमनं तुपडिक्कमंतस्स ।। वृ- यदा भक्तार्थं पानार्थं वा भिक्षाचर्यया ग्रामांतरं गत्वा मार्गगमनसमुत्थपरिश्रममजयाय विश्राम्यति, असति कालेति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः पढमालियत्ति यदिवा क्षुधापीडितः सन् प्रथमालिकां कर्तुकामा यत्रशुन्यगृहादिषु प्रविशति, वासत्ति अथवा तस्मिन्नन्यस्मिन् वा ग्रामे भिक्षामटतोतरा वर्षं पतितुमारब्धं ततः छन्नं किमपि स्थानं प्रविश्य तत्रासितुकामः संखंडीए वा इति संखंड्यां वा अप्रमाणायां ध्रुवं भूयात् लाभ इति ज्ञात्वा क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवतितदा तस्यैर्यापथिक्यर्थईर्यापथिकपापविशुध्ध्यर्थंगमनंप्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्गः पंचविशत्युच्छासप्रमाणः उच्छ्रासाश्च पादसमास इति पंचविंशतेश्चतुर्भिः भागे हते षट् श्लोका एकपादाधिका लभ्यते ततश्चतुर्विशतिस्तवः चंदेसु निम्मलयरा इति पादपर्यंतंकायोत्सर्गे चिंतनीय इतिभावः ।। [भा.११३] एवमेव सेसएसुविहोइनिसज्जए अंतरेगमनं । आगमनंजंतत्तो निरंतरगयागयंहोइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy