________________
४१८
[ भा. १४६७ ]
सो कालागतम्मि उगतो, विदेसं व तत्थ व अपुच्छा । थेरे धारेयमणं भावनिसिठं अनुग्घाया ।।
वृ- देशदर्शननिमित्तं गतेन ये प्रव्राजितास्तान् यद्यात्मनो यावत् कथिकान् शिष्यतया बद्धाति ततस्तस्य प्रायश्चित्तं चतुर्गुरुकं । तथा देशदर्शनं कृत्वा तस्मिन्नागते अप्रस्थापिते च तस्मिन्ना चार्यपदे स्थविरा यस्याचार्या उपराताः कालगता यदि वा स प्रत्यागतोऽप्यशिवादिभिः कारणैर्यदि वा साधकस्य असतित्ति अभावेनाचार्यपदे स्थापितेऽत्रान्तरे वाचार्यः तस्मिन् कालगते यदिवागतो विदेशं तत्रैव विदेशे गणं धारयिमुमिच्छित् । एतेषु सर्वेष्वपि कारणेषु समुत्पन्नेषु यदि स्थविरान् गच्छमहतो अपृष्ट्वा यद्यपि तस्याचार्येण भावतो गणो निसृष्टोऽनुज्ञातस्तथापिस्थविरा आपृच्छनीयास्तत आह-भावनिसृष्टमापगणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तं अनुद्घाता गुरुकाश्चत्वारो मासा उपलक्षणमेतत् आज्ञानवस्थामिथ्यात्वविराधनारूपाश्च तस्प दोषाः ।
[भा. १४६८ ]
सयमेव दिसाबंधं अननुन्नाते करे अनापुच्छा । थेरेर्हिय पडिंसिद्धो सुद्धालग्गा उवेहंता ।।
वृ- यो नाम स्वयमेव आत्मच्छंदसा को मम निजमाचार्यं मुक्त्वान्य आपृच्छनीयः समस्तीत्यध्यवसायतः पूर्वाचार्येणाननुज्ञात आचार्यपदे तस्य स्थापनात् स्थविरान् गच्छमहत्तररूपान् अनापृच्छय दिग्बन्धं करोति स्थविरैः प्रतिषेधनीयः । यथा न वर्तते आर्य! तव तीर्थकराणामाज्ञां लोपयितुं एवं प्रतिचोदितो यदि न प्रतिनिवर्तते तर्हि स्थविराः शुद्धाः स चतुर्गुरुके प्रायश्चिते लग्नः । अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्ना यत एवमुपेक्षायामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थविरैरुपेक्षा न कर्तव्या । तेन च स्थविरा आपृच्छनीयाः ।। सगणे थेराणसती तिग थेरे वा वाति गंतु ।
[ भा. १४६९ ]
व्यवहार - छेदसूत्रम् - १- ३/६७
बद्धातिसेवा सति इत्तरियं धारेइ न मेलितो जाव ।।
बृ- अथ स्वगच्छे स्थविरा न सन्ति तर्हि गणे स्वकीये गच्छे स्थविराणामसति अभावे ये त्रिककुलगणसंघरुपे स्थविरांस्तान् त्रिकं स्थविराणां त्रिकं वा समस्तं समस्तं कुलं वा सङ्घ वा गणं वा इत्यर्थः । उपतिष्ठेत् यथा यूयमनुजानीत मह्यं दिशमिति अथ अशिवादिभिः कारणैर्न पश्येत् कुलस्थविरादीनामसत्यभावे इत्वरिकां दिशं गणस्य धारयति यावत् कुलादिभिः सह गणेन मिलितो भवति ।।
[भा. १४७० ]
जे अहाकप्पेणं अनुनायंमि तत्थ साहम्मी । विहरंति तमट्टाए न तेसिं च्छेओ न परिहारो ।।
वृ- ये तु साधर्मिकाः स्वगच्छ्वर्तिनः परगच्छवर्तिनो वा यथाकल्पेन श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थापनात् विषये तदर्थाय सूत्राणामर्थाय आसेवना शिक्षायैवेत्यर्थः । अनुज्ञाते गणधारणा तत्र गच्छे विहरन्ति । ऋतुबद्धे काले मासकल्पेन वर्षासु वर्षाकल्पे तेषां तत्प्रत्ययो यदेषोऽनुज्ञातो गणं धारयतीतितन्निमित्तमित्यर्थः । प्रायश्चित्तं न च्छेदो न परिहार उपलक्षणमेतन्नान्यद्वा । तपः, श्रुतोपदेशेन तेषां सुत्राद्यर्थं तत्रोपस्थापनात्, विषय लोलता हि तस्या समीपमुपतिष्ठमानानां दोषा, न सूत्राद्यर्थमिति, ।।
मू. (६८) तिवासपरियाए समणे निग्गंधे आयारकुसले संजमकुसले पवयणकुसले पन्नतिकुसले
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International