SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ९९] तथाहि ईयर्यासमितावुपयुक्तोप्युच्चालिते पादे सहसा समापतितं कुलिंगिनमपि व्यापादयेत् मृषापि कदाचित्सहसाभाषतेऽग्रहमपिकदाचिद्राभसिकतयाअननुज्ञातमपिपरिभोगयति अत्युल्बणमबलारुपमवलोक्य कदाचनिपि सहसारागमुपैति इत्यादि, तथा भयात्प्रपलायमानो भूजल ज्वलन वनस्पतिद्वित्रिचतुःपंचेद्रियानपि व्यापादयेन् मृषापि भया भाषते, परिग्रहमपि धर्मोपकरणबाह्यस्य करोति, आतुरतायामपिसम्यगीर्यापशाशोधनेसंभवतिप्राणातिपातः, अत्यातुरतायांकदाचिन्मृषाभाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयं, यथा महाव्रतानां प्राणातिपातनिवृत्त्यादीनां सहसाकारः स्फुटबुद्धयाकारणतोवाअतिचारेचशब्दादतिक्रमव्यतिक्रमयोश्चतथाऽतिक्रमादीनांमहावृतविषयाणामन्यतमस्याशंकायांवाकिमित्याहछण्हठाणाणबज्झतोइतिइहकेषांचित्अनवस्थितपारांचितेप्रायश्चिते द्वेअपिकंप्रायश्चित्तमितिप्रतिपत्तिः तन्मतेन नवधा प्रायश्चित्तं, तत्रचाद्ये द्वेप्रायश्चितेमुकत्वाशेषाणि सप्त प्रायश्चित्तानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां षण्णां बाह्ये नाभ्यंतरमिति. षण्णांस्थानानांबाह्यतः इति वचसा तदेव प्रतिपत्तव्यं यश्च तदभयं तच्चेवं भावनीयं, शंकितादिषु यथोक्तस्वरुपेषु सत्सु प्रथमं गुरुणां पुरत आलोचनं, तदनंतरं गुरुसमादेशेन मिथ्यादुःकृतदानमिति तत्र यदुक्तंसंकिएइति तत्त्ववृण्वन्नाह - [भा.१००] हित्थोव न हित्थोमे, सत्तोभणियं वनभणियं मोसं । __उगहनुएणमणुन्ना, तइए फासेचउत्थम्मि ॥ [भा.१०१] इंदियरागद्दोसाउ, पंचमे किंगतोमिनगतोत्ति । छठेलेवाडाइ,धोयमधोयं नवावेत्ति ॥ वृ. सत्त्वः प्राणी हित्थोत्ति देशीपदमेतत् हिसिंतो मे मया न वा हिंसित इति, तथा भणितं यदि वान भणितंतथातृतीये अदत्तादान विरतिलक्षणे अवग्रहोऽनुज्ञान कारिता, तथा चतुर्थे मैथुनविरति लक्षणे, जिनभवनादिषु स्नानादि दर्शन प्रयोजनतो गतः सन् फासे इति स्त्री स्पर्शरागंगतो न वा, तथा पंचमे परिग्रह विरमणलक्षणे इन्द्रियेषु विषयिणा विषयोषलक्षणादिन्द्रिय विषयेषुइष्टानिष्टेषुरागद्वेषौ गतोस्मि किंवानगतइति, तथाषष्ठेरात्रिभोजन विरमणेलेपकृदादितक्राद्यवयवपंकथमपियात्रादिगतंपर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवान धौतंमयेति यद्यैवं ततः किमित्याह[भा.१०२] इंदिय अव्वागडियाजे अत्था अनुवधारिया । तदुभयपायच्छित्तं पडिवज्जइभावतो ।। वृ. उक्तेन प्रकारेण य अर्थः प्राणातिपातादयः इन्द्रियैश्चक्षुरादिभिरव्याकृता अप्रकटीभूताः प्रकटीकृताअपियेअनुपधारितानसम्यक्धारणाविषयीकृतास्तेषुप्रायत्तिंप्रतिपद्यतेभावतः सम्यक् अपुनरावतनेन तदुभयमिति तच्च तद् उभयं च पूर्वं गुरुणां पुरत आलोचना तदनंतरं तदादेशतो मिथ्यादुःकृतदानमित्येवं रूपंतदुभयं एतदेवसविस्तरमभिधित्सुराह - [भा.१०३] सद्दा सुया बहुविहा तत्थय केसु विगतोमिरागंति; । अमुगत्थ मेवितक्का, पडिवज्जइतदुभयं तत्था ।। वृ-शब्दामयाबहुविधाबहुप्रकाराः श्रुताः श्रवणविषयीकृतास्तत्रतेषुबहुविधेषुशब्देषुश्रुतेषुमध्ये वितर्कतिएवं मे वितर्कसंदेहोयथाकेषुचिदपिअमुगत्थति अमुकेषुरागमुपलक्षणमेतत्द्वेषंवागतोस्मि तत्रतस्मिन् शंकाविषये तदुभयमुक्तलक्षणंप्रायश्चित्तंभावतः प्रतिपद्यते, यदि हि निश्चितंभवति यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy