________________
व्यवहार - छेदसूत्रम् - १
परमकरुणापरितचेतसस्ततस्त एव युक्तमयुक्तं वा जानंति किमत्र शिष्यस्य चिंतयेति शिष्येण सर्वत्रानुलोमविनयमिच्छता ईद्दशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति, संप्रति गुत्तिसु य समिईसु य इत्यादि गाथायां यदुक्तं पसत्थे य इति तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति - तत्थ उपसत्थगण परिपिट्टणछेज्जमाइ वारेइ । उसन्नगिहत्थाण, य उट्ठाईय पुव्वुत्ता ||
[भा. ९६ ]
वृ- जोगे तहा पसत्थे य इत्यत्र यत् प्रशस्तग्रहणं कृतं तत् अप्रशस्तयोगं परिपिट्टनछेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत् करणस्यैव प्रायश्चित्तविषयत्वात्, तथा अवसन्नानामुपलक्षणमेतत्पार्श्वस्थकुशीलानां च तथा गृहस्थानां पूर्वोक्ता उत्थानादयोऽभ्युत्थानजल्पासनप्रदानादयस्तानपि वारयति, तेषामपि तान् प्रति अप्रशस्तत्वात्, अत्रैव प्रायश्चित्तयोजनामाह || [ भा. ९७]
३८
जो जत्थ उकरणिजी, उट्टाणाइंउ अकरणेतस्स । होइ पडिक्कमियव्वं एमेवय वाए मानसिए ।।
वृ- यो योग उत्थानादिरभ्युत्थानांजलिप्रदानादिको यत्र आचार्यादिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुःकृतं प्रायश्चित्तं भवतीति भावः, तदेव तत् कायिकप्रतिरुपयोगविषये उक्तमेव अनेनैव प्रकारेण वाचिके मानसिकेपि योगे प्रतिरुपे वक्तव्यं, यथा वाचिको मानसिकोपि यः प्रतियोगरुपयोगो यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुः कृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थस्तेन इच्छामिध्यादिप्रशस्तयोगाकरणेपि मिथ्यादुः कृतं द्रष्टव्यं, संप्रति यत् मूलगाथायामतिक्कमे अनाभोगे इत्युपन्यस्तं, तद्व्याख्यानयन्नाह ।।
[ भा. ९८ ]
अवराहे अतिक्कमणे वइक्कमे चेव तह अनाभोगे ।
भयमाणे उ अकिच्चं, पायच्छित्तं पडिक्कमणं; ।।
बृ- अपराधे उत्तरगुणप्रतिसेवनरुपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभांगतोऽकृत्यमपि मूलोत्तरगुण प्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तं तदेवमुक्तं प्रतिक्रमणार्हं प्रायश्चित्तमिदानीं तदुभयार्हमभिधातुकाम आह ।
[भा. ९९ ]
संकिए सहसागारे भयाउरे आवतीसुयः । महव्वयातिचारे य, छण्हं ठाणाण बज्झतो ।।
वृ- शंकितः प्राणातिपातोदौ यथा मया प्राणातिपातः कृतः किंवा न कृतस्तथा मृषा भणितं नवा, अवग्रहोऽनुज्ञापितो नवा, स्नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्शे रागगमनमभून्नवा, इष्टानिष्टेषु शब्दादिषु रागद्वेषौ गत नवा तक्रादिलेपकृदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धीत्ता इत्यादितत्र पन्नां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चितमिति योगः, तथा उपयोगवतोपि सहसाकारे सहसा प्राणातिपादिकरणे तथा भये दुष्टम्लेच्छादिसमुत्थे यदिवा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शनेन वा आकुलतया प्राणातिपातादिकरणे तथा आतुरः क्षुधापिपासया वा पीडितः भावप्रधानश्चायं निर्देशस्ततोयमर्थः आतुरतायां तथा आपत्चतुर्द्धा तद्यथा द्रव्यापत् क्षेत्रापत् कालापत्, भावापत्; तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापच्छिन्नमंडपादि कालापत् दुर्भिक्षादि, भावापत् गाढग्लानत्वादि एतासु स हिंसादोषमापद्यमानस्यापि अनात्मवशगस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org