SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३६ व्यवहार - छेदसूत्रम्-१वृ- वाशब्दः प्रकारांतरद्योतनार्थः, अन्यथा वा चतुष्प्रकारः प्रतिरुपविनयः तत्र तेषु चतुर्षु प्रकारेषु मध्ये एकः प्रतिरुपविनयस्तावदयं यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोभवचनपूर्वकं करोति नान्यथेति भावः, द्वितीयप्रतिरूपकायक्रिया यथा परिपाट्या शरीरविश्रामणमित्यर्थः, तृतीयः संस्पर्शनविनयः यथा गुर्वादेः सुखासिको यः जायते तथा मृदुसंस्पर्शनप्रत्येकः संस्पर्शनविषय इतिभावः, चतुर्थः सर्वानुलोमता सूत्रेसर्वानुलोममिति भावप्रधानो निर्देशः, चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धेपि प्राणव्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव व कार्यसंपादनमित्येवं रुपा एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोनुलोमवचनसहितत्वं व्याख्यानयति - भा. [ ८७ ] अमुकीर उ आमंति भणइ अनुलोमवयणसहितो उ, वयणपसायाईहिय अभिनंदइ तं वयं गरुणो ।। वृ- इच्छाकारेण भो शिष्याः अमुकं क्रियतामित्येवं गुरुणा समादिष्टे यो वचसा आममिति ब्रूते एव किंतु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन मुखस्य प्रसन्नतया आदिशब्दात् उत्फुल्लनयनकमलोंऽजलिप्रग्रहादिना चाभिनंदति, महान् कृतः प्रसादो यदेवं समादिष्ट इति एवं ज्ञापनेन स्फीतीकरोति स विनयविनयवतोरभेदोपचारात् अनुलोमवचनसहितः प्रतिरुपविनयः तुशब्द एवकारार्थः एवरुप एवानुलोमवचनसहितो नान्य इति, अस्यैव विनयस्य करणे उपदेशमाह - [भा. ८८] चोदयंते परं थेरा इच्छानिच्छेय तं वई; जुत्ता विनयजुत्तस्स गुरुवक्कनुलोमता ।। वृ- स्थविरा आचार्यादयः ते परं शिष्यं चोदयंते तेषां तत्राधिकारित्वात् तत्र तां चोदनात्मिकां वाचं प्रति यदि इच्छा भवति तदादिष्टकार्यकरणाय यदिवा अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमता आममित्येवं गुरुवाक्योपबृंहणं, गुरुवाक्योपदिष्टकार्यसंपादकता चेति लक्षणा युक्ता इयमत्र भावना जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोर्निकटवर्त्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते, तदा तां शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येवं उपबृंहणीयं कार्यं च संपादनीयमिति एतदेव सविस्तरमाह । [ भा. ८९ ] वो भाति तत्थ खप्पं समुज्जमे । नऊसच्छंदया सेया, लोए किमुत उत्तरे । वृ- गुरवो यत्प्रभाषते, कर्त्तव्यतयोपदिशंति, तत्र क्षिप्रं शीघ्रं समुद्यच्छेत् सम्यगुद्यमं कुर्यात् यतो नहु नैव स्वच्छंदता स्वाभिप्रायेण वर्त्तिता श्रेयसी लोकेपि, अपिशब्दोत्राऽनुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे लोकोत्तरे सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, ज्ञानादिविच्युतिप्रसंगात्। जदुतं गुरुनिसं जोवि आइसई मुनी । [ भा. ९० ] तस्सावि विहिणा जुत्ता, गुरुवक्वानुलोमता ।। बृ-यथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योपिमुनिरादिशति कथयति, तस्यापि तथादिशतः प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्यानुलोमता यतो यथोक्तस्वरुपात्तदेवमुक्तोऽनुलोमवचनसहितस्वरूपो विनयः, संप्रति प्रतिरुपकायक्रियाविनयमाह - [ भा. ९१] अद्धा वायणाए निन्नासणयाए परिकिलंतस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy