SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ८२] ह्येवंपरिभावयति, ज्ञानदर्शनचारित्रलाभैर्मामनुपकारिणमप्युपकुर्वति भगवंतोऽमी सूरयस्तस्मादेतेष्ववश्यं विनयः कर्त्तव्यः, “जस्स तियं वेनइयं पउंजे" इति वचनादेवं च पर्यालोच्य यः क्रियते विनयः, स कृतप्रतिकृतिरुपत्वात् कृतप्रतिकृतिमोक्षांगत्वाच्चावश्यं कर्तव्य इति अन्यच्च उत्सर्गतस्तावत् साधुभिः सर्वं निर्जरार्थं कर्त्तव्यं, केवलं कदाचिदशुभोपिभाव उपजायते, कबुर्म्मगतेर्विचित्रत्वात्ततोऽशुभभावोदयवशात् यद्यपि सर्वदा न निर्जरार्थं प्रवर्त्तते, तथाप्येष ममापि करिष्यतीति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यं, तथा चाह 'कयपडिकितिविजुज्जइ' इत्यादि यद्यपि यत् वैयावृत्त्यं सर्वत्र सर्वेषु प्रयोजनेषु निर्जरानिमित्तं करोति तथापि कृतप्रतिकृतिरपि युज्यते कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्तव्यमितिभावः, साधूनां ज्ञानादिपात्रतया विनयं स्थानत्वेन तेषु विनयस्य कल्याणपरंपराहेतुत्वात्। उक्तः कृतप्रतिकृतिरुपो विनयः । सांप्रतमार्त्तगवेषणरुपविनयप्रतिपादनार्थमाह । दव्वावईमाइसुं अत्तमणत्तेव गवेसणं कुणइ ।। [भा. ८३ / १ ] वृ- द्रव्यापदि दुर्लभद्रव्य संपतौ च तथा चभवति केषुचित् देशेष्ववं त्यादिषु दुर्लभं घृतादिद्रव्यमिति, आदिशब्दात् क्षेत्रापदि परिग्रहः, तत्र क्षेत्रापदिकांतारादिपतने, कालापदि दुर्भिक्षे, भावापदि गाढग्लानत्वे आर्त्तस्य पीडितस्य अत्यन्तसहिष्णुतया अनार्त्तस्य वा यथाशक्तियत् गवेषणं करोति, दुर्लभद्रव्यादि संपादयति, स आर्त्तगवेषणविनयः; संप्रति कालज्ञताविनयप्रतिपादनार्थमाहआहारादिपयाणं छंदमि ऊ छठ्ठउ विनउ ।। [ भा. ८३ / २ ] वृ- षष्ठः कालज्ञतालक्षणो विनयः एष यदुत छंदंमिउ इति तृतीयार्थे सप्तमी यथा तिसु तेसु अलंकिया पुहवी इत्यत्रततोऽयमर्थः । छंदसा गुरुणामभिप्रायेणैव तुशब्दस्यैवकारार्थत्वात् आहारादिप्रदानं किमुक्तं भवति, यत् यस्मै प्रतिभासते तदिंगिताकारादिभिरभिज्ञाय आचार्यग्लानोपाध्यायप्रभृतिनामकालक्षेपं संपादयति, स एष कालज्ञताविनयः उक्तः कालज्ञताविनयः, संप्रति सर्वत्रानुलोमतालक्षणं विनयमाह । [ भा. ८४] सामायारिपरुवणनिद्देसे चेव बहुविहे गुरुजो, । एमेयत्ति तहत्तिय, सव्वत्थनुलोमयाएसा ।। वृ- गुरुणो इत्यत्र कर्त्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे किमुक्तं भवति, इच्छामिथ्यादिरुपायां तस्यां सामाचार्य्यां गुरुणा प्ररुप्यमाणायां एवमेतत् यथा भगवंतो वदंति नान्यथेति प्रतिपत्तिस्तथा बहुविधे बहुप्रकारे निर्देशे तत्कर्त्तव्यताज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनय उपसंहारमाह [ भा. ८५] लोगोवयारविनओ, इय एसो वन्नितो सपक्खमि । ३५ आज कारणं पुनकीरइ जइणा विपक्खेवि ।। वृ- इति एवमुक्तेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे सुविहितलक्षणे वर्णितः आसाद्य कारणं विपुनर्विपक्षेपि गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु एष लोकोपचारविनयाभ्यास वर्त्तित्वादिलक्षणो यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमानाबाधया च क्रियते, तदेवं कायवाङ्मनोलोकोपचारभेदतश्चतुः प्रकारः प्रतिरुपविनययुक्तः अथवा अन्यथा चतुः प्रकारः प्रतिरुपविनयस्तानेव प्रकारान् दर्शयति । । [ भा. ८६ ] चउहा वा पडिवो तत्थेगनुलोमवयणसहियत्तं । पडिरुवकायकिरिया फासणसव्वानुलोमंच ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy