________________
व्यवहार - छेदसूत्रम्-१स कार्यनिमित्तको विनयः, पडिकित्तीचेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृतिरुपत्वात्प्रतिकृतिरत्र कार्यहतुकेप्रतिकृतिरुपेचविनये आक्षेपपरिहारौभाष्यकृद्वक्ष्याति,तथा द्रव्याद्यापत्सुआर्त्तस्यउपलक्षणमेतत्अनार्तस्यवागवेषणंदुर्लभद्रव्यसंपादनादिरुपमार्तगवेषणं, तथा कालं प्रस्तावमुपलक्षणत्वात् देशं च जानातीति कालज्ञस्तद्भावः कालज्ञता देशकालपरिज्ञानं तस्मिन् सतिगुर्वादिच्छंदसागुर्वादिभ्यआहारादिप्रदानंकरोति,ततोविनयहेतुत्वात्तदपिदेशकाल परिज्ञानविनयः तथा सर्वेषु गुरुपदेशेष्वनुलोममप्रतिकुलतो सर्वानुलोम, च समुच्चये एष गाथासंक्षेपार्थः, व्यासार्थं तु भाष्यकृबिभणिषुः प्रथमतोभ्यासवर्त्तित्वं व्याख्यानयन्नाह[भा.७९] गुरुणोयलाभकंखी, अब्भासे वट्टतेसया ।
साहू आगारइंगिएहिं, संदिठ्ठो वत्तिकाऊणं ।। वृ- गुरोरभ्यासे समीपे लाभकांक्षी, ज्ञानदर्शनचारित्ररुपपरमार्थलाभार्थी सदा साधुः प्रवर्त्तते, किमर्थमित्यत आह-आगारित्यादि आकारो नेत्रवक्त्रगतं, इंगितं चेष्टा ताभ्यां गुरोरभिप्रायमवगम्य तत्समीहितं कुर्तुसंदिष्टो चेति यत् किमपिगुरुणा संदिष्टः तद्वा कर्तुमिति, संप्रतिच्छंदोनुवर्त्तितामाह - [भा.८०] कालसहावानुमया, अहारुवहीउवस्सया चेव ।
नाउंववहरइतहा, छंदं अनुवत्तमाणोउ ।। वृ-आहारः पिंडः, उपधिः कल्पादिः, उपाश्रयो वसतिरेते कालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते, कालानुमताःस्वभावानुमताश्चकालानुमतायेयस्मिन्काले सुखहेतुतयानुमताः तेकालानुमताः । प्रकृतिः स्वभावःसचार्थादिहगुरोः प्रतिगृह्यतेतदनुमताः तदनुकूलाःतान्तथा ज्ञात्वा च्छंदो गुरोरभिप्रायमनुवर्त्तमानो व्यवहरति संपादयति, एष च्छंदोनुवर्त्तिताविनयः, संप्रति कार्यहेतुके विनये परकृतमाक्षेपमनस्याधाय परिहारमाह । [भा.८१] इहपरलोकासंसविमुक्कं कामं वयंति विनयंतु ।
मोक्खाहिगारिएसुअविरुद्धो सो दुपक्खेवि ।। वृ- ननु तीर्थकरैर्भगवद्भिरिहपरलोकाशंसाविप्रमुक्तविनयः कर्त्तव्यतयोपदिष्टस्ततः कथं साधूनां कार्यहेतुको विनयः ? उच्यते, काममिति अनुमते अवधृते ततोयमर्थः, यद्यपि नाम इह परलोकाशंसाविप्रभुक्तं कामं नियमाद्वदंति विनयं तथापि मोक्षाधिकारिषु मोक्षयोग्येषु मोक्षपथज्ञानदर्शनचारित्रवत्स्वित्यर्थःसकार्यहतुकोपिविनयः द्वयोपक्षयोः समाहारेद्विपक्षं, तस्मिन्नपि साधुव चेत्यर्थःअविरुद्धोन विरोधभाकइयमत्रभावना कार्यहतुकोपि विनयः खलुसंग्रहादिकार्यार्थं संग्रहादि कार्यं च मोक्षांगमिति, सोपिमोक्षार्थिना कर्तव्यो भगवदुपदिष्टत्वादिति, संप्रति कृत प्रतिकृत विनये तमेवाक्षेपमनस्याधाय परिहारमाह । - [भा.८२] एमेवय अनियाणं, वेयावच्चंतुहोइकायव्यं ।
___ कयपडिकित्ती विजुजइ, न कुणइसव्वत्थ नजयइवि ।। वृ- यथा मोक्षांगतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षांगतयैव कृतप्रतिकृतिरुपमपिवैयावृत्त्यं अनिदानं निदानंभोगप्रार्थना तद्रहितंभवति, कर्तव्यं अनिदानमिति, चविशेषणंमध्यग्रहणेदंडादेरिवाद्यंतयोरपि ग्रहणमितिन्यायात्पूर्वं पश्चाच्चद्रष्टव्यं, तेन सर्वोपिविनयो मोक्षार्थिभिरनिदानः कर्तव्यः अथ कथं कृतप्रतिकृतिरुपस्य विनयस्य मोक्षांगता ? उच्यते सुशिष्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org