________________
पीठिका - [भा. ७३]
वृ-तदपि हितं मितंचभणति अपरुषमनिष्टुरमेतदेवव्याचष्टेमूदुकं कोमलं कथंभूतमित्याह; हृदयं गृह्णाति हृदये सम्यग्निवे शिते इत्येवंशीलहृदयग्राहः तथा सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतृमनसां प्रीतिकारि सुपेशलं, तथा नयनमुखाभ्यां विकसन् तथा कथंचनापि भणति, यथा स्नेहमिवांतरप्रतिबद्धभिव साक्षादुगिरन् प्रकटीकुर्वन् प्रतिभासते, इत्थंभूतो वक्ता अपरुषभासी, संप्रत्यनुचिंत्यभाषित्वप्रतिपादनार्थमाह ।। [भा.७४] तंपुन विरहे भासइनचेव ततोऽपभासियं कुणइ ।
जोएइतहाकालं, जहवुत्तं होइ सफलंतु ।। वृ- तत्पुनर्हितं मितपरुषं च भाषते, अविरहे विरहाभावे समक्षमित्यर्थः, न पुनस्ततो विरहादन्यत्र परोक्षे अपभाषितंदुष्टभाषणं करोति विरुपं भाषते इत्यर्थः, तथा जोएइति देशीवचनमेतन् निरुपयति कालं प्रस्तावं यथाप्रस्तावोचिततया उक्तंभणितंसफलंभवति ।। [भा.७५] अमियं अदेसकालेभावियमिव भासियं निरुवयारं ।
आपत्तीवि नगिण्हइ, किमंग पुन जोपमाणत्थो ।। वृ-अमितंप्रभूताक्षरं, तथा अदेशकालेभावितमेवेतिदेशकालाभ्यामभावितमिव नदेशोचितंनापि कालोचितमिति भावः, अत एव निरुपकारी देशकालानुचिततया ततो लेशतोपि परस्योपकारायोगात एवंरुपंभाषितमायत्तोपिस्ववशगोऽपिनगृह्णाति, नादेयबुद्धया श्रृणोतिकिमंग पुनः प्रमाणस्थोमान्य इति। [भा.७६] पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे ।
अचक्खुयोवनेयारं, बुद्धिं अन्नेसए गिरा ।। वृ- प्रागुक्तप्रकारण पूर्व बुद्धया प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृत्त्यासम्यगुपादेयत्वायोगात्तथाचाहअचक्षुष्कइवांधकइवनेतारमाकर्षयितारंबुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ना अनुविचिंत्यभाषी, उक्तो वाचिको विनयः संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह - [भा.७७] मानसिओ पुन विनओ दुविहो उसमासओ मुनीयव्यो ।
अकुसलमनोनिरोही कुसलमनउदीरणंचेव ।। वृ- मानसिकः पुनर्विनयः समासतः संक्षेपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति, अकुशलस्यआर्तध्यानाधुपगतस्यमनसोनिरोधः,अकुशलमनोनिरोधःकुशलस्य धर्मध्यानाद्युत्थितस्यमनस उदीरणं, चसमुच्चये एवकारो अवधारणे एतायेव द्वौ भेदी नान्याविति ।
उक्तो मानसिकोपिविनयः, सांप्रतमापैचारिकसप्तविधविनयप्रतिपादनार्थमाह - [भा.७८] अब्भासवत्ति छंदोनुवत्तिया कजपडिकित्तीचेव,
अत्तगवेसणकालोनुयायसव्वानुलोमंच।।। वृ-गुरो रभ्यासे समीपे वर्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकार्पत्यासन्नवर्तीति भावः छंदो गुरुणामभिप्रायस्तमनुवर्तते, आराधयतीत्येवंशीलः, छंदोनुवर्ती तद्भावः छंदोनुवर्त्तिता, तथा कार्ये कार्यनिमित्तंतृतीयोविनयः किमुक्तंभवतिसंग्रहमुपसंग्रहंवामेकरिष्यतीत्येवं बुद्ध्यायोविनयः क्रियते [23]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org