________________
३५६
व्यवहार - छेदसूत्रम्-१-२/५२ अट्ठाणअनाभोगा विदेस असिवादितुंदोवि ।। वृ- यस्मात्परायत्तदीक्षणे अनार्यदेशगमे चैते दोषा तस्मादपरायत्तान् दीक्षयेत् । अनार्यांश्च देशान् वर्जयेत् । अत्रैवापवादमाह-अद्वाणेतिअध्वानंप्रतिपन्नस्यममोपग्रहमेतेकरिष्यन्तीतिहेतोः परायत्तानपि दीक्षयेत् । यदिवानाभोगतः प्रव्राजयेत्विदेशस्था वास्वरूपमजानानादीक्षयेयुरशिवादिषुपुनः कारणेषु दोवितित्तिद्वे अपिपरायत्तदीक्षणानार्यदेशगमने अपिकुर्यात् । किमुक्तंभवति ।अशिवादिषुकारणेषु समुपस्थितेषु परायत्तानपिगच्छोपग्रहनिमित्तं दीक्षयेत् अनार्यानपिदेशाविहरेदिति ।
मू. (५३)अणवठ्ठप्पंभिक्खुंअगिहिभूयंनो कप्पइ तस्सगणावच्छेयस्स उवठ्ठावेत्तए । मू. (५४) अणवठ्ठप्पं भिक्खूगिहिभूयं तस्सगणावच्छेदियस्स उवठ्ठावित्तएइति । वृ- अथास्यसूत्रस्यकः सम्बन्ध उच्यते[भा.११९९] - अट्ठस्स कारणेणंसाहम्मियतेणमादिज्जइकुज्जा ।
इइ अणवढेजोगो । नियमातोयावि दसमस्सा ।। वृ- साधर्मिकैःकारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तैन्यमादिशब्दादन्यधार्मिकस्तैन्यादि परिग्रहः यदिकुर्यात्ततः सोऽनवस्थाप्योभवति । एतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रं । इति एषोऽनवस्थाप्यसूत्रस्य योगसम्बन्ध : । पाराञ्चितसूत्रस्यापि सम्बन्धमाह-नवमात्प्रायश्चित्तादनवस्थाप्यादनन्तरं किलं दशमं पाराञ्चितनामकं प्रायश्चित्तं भवति । ततो नवमान्नवम प्रायश्चित्तसूत्रस्यारंभः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-अनवस्थाप्यं भिक्षुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापयितुं । तथाऽनवस्थाप्यं भिक्षुगृहीभूतंकल्पतेतस्यगणावच्छेदिन उपस्थापयितुं, सम्प्रति पाराञ्चितसूत्रमाह
मू. (५५) पारांचियपि भिक्खुंअगिहिभूयंनो कम्पतेतस्स गणावच्छेदियस्सउवट्ठावेत्तए । मू. (५६) पारांचियंभिक्खुंगिहिभूयंकप्पइ । तस्स गणावच्छेदियस्सउवट्टावित्तए ।। वृ-अस्यसूत्रद्वयस्याक्षरगमनिकाप्राग्वत् ।सम्प्रतिभाष्यविस्तर[भा.१२००] अनवट्ठो पारंचियपुव्वं भणियाइमंतुनाणत्तं । ..
गिहिभूयस्स यकरणं, अकरणे गुरुगायआणादी । वृ- अनवस्थाप्यः पाराञ्चित एतौ द्वावपि पूर्वं भणितौ । इदं त्वत्र नानात्वं गृहिभूतस्य गृहस्थरूपसदृशस्य करणं यदि पुनर्गृहिभूतम कृत्वा तमुपस्थापयति । तदा गृहिभूतस्याकरणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । तथा आज्ञादय आज्ञानवस्था मिथ्यात्वविराधनादोषाः । अन्यच्च प्रमत्तं सन्तं देवताच्छलयेत् गृहिभूतस्य तुच्छलना न भवति । यस्माद्गृहीभूतं कृत्वा तमुपस्थापयेत् । गृहस्थरूपताकरणमेवभावयति-- [भा.१२०१] वरनेवत्थं एगेण्हाणादि विवज्जमवरेजुगलमेत्तं ।
परिसामझे धम्मं,सुणेज्जतो कहणदिक्खा ।। वृ- एके आचार्या एवं ब्रुवते-स्नानविवर्जं वरं नेपथ्यं तस्य क्रियते, । अपरे दाक्षिणात्याः पुनरेवमाहुर्वस्त्रयुगलमात्रं परिधाप्यते, । तत्पर्षन्मध्ये आचार्यसमीपमुपगम्य ब्रुवते । भगवन् धर्म श्रोतुमिच्छामि । ततः कहणत्ति आचार्यःधर्मं कथयतिकथितेचसतिसकलजनसमक्षं ब्रूते श्रद्धधामि सम्यग्धर्ममेनमितिमा प्रवाजयत । एवमुक्तेतस्य दीक्षालिङ्ग समर्पणानन्तरंचतत्क्षणमेवोपस्थाप्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org