________________
उद्देश : २, मूलं : ५२, [भा. ११९२]
३५५
जस्स होइ भंड सोदेति ममंतिगे धम्मो ।।
वृ एवमेव अनेनैव दासत्वापन्नगतेन द्वारेण प्रकारेण ऋणार्त्तस्यापि प्रागुक्त शब्दार्थस्यामोक्षणे यतना द्रष्टव्या । नवरमत्र धनदानचिन्तायां नानात्वं किं तदित्याह तपस्तुलना कर्तव्या सा चैवं । स भण्यते साधवस्तपोधना अहिरण्य सुवर्णालोकेऽपियद्यस्य भाण्डंभवति सतत्तस्मै उत्तमवर्णाय ददाति । अस्माकं च पार्श्वे धर्मस्तस्मात्त्वमपि धर्मं गृहाण एवमुक्ते स प्राह
[ भा. ११९३]
जोणेणकतो धम्मो तं देउ न एत्तियसमं तुलति । हानी जावेतहिं तावइयं विजथं भणय ।।
वृ-योऽनेन कृतो धर्मः सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यं नैतावत् दद्मो यतो नैतावत्समंतुलतिस प्राह, एकेनसंवत्सरेण हीनं प्रयच्छत, तदपिप्रतिषेधनीयंद्वाभ्यां संवत्सराभ्यां दत्त इति एवतावत् वैभाषा कर्तव्या । यावदेकेन दिवसेन कृतो योऽनेन धर्मस्तं प्रयच्छत ततो वक्तव्यं नाभ्यधिकं दत्तः दद्मः । किन्तु यावत्तद्गृहीतं मुहूर्तादि कृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः । एवमुक्ते यदितोलनाय ढोकते तदा विद्यादिभिस्तुला स्तंभनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति धर्मतोलनं च धर्माधिकरणिकनीतिशास्त्रप्रसिद्धिमिति ततोऽवसातव्यम् ।
[भा. ११९४]
[ भा. ११९५ ]
[भा. ११९६ ]
जइ पुन निच्छेज्ज तवं वाणियधम्मेण ताहे सुद्धोउ । को पुन वाणियधम्मो सामुद्दे संभवे इणमे ।। वत्थाणाभरणाणि य सव्वं छड्डित्तु एगविदेणं । पोयंमि विवण्णमिवाणियधम्मे हवेइ सुद्धो ।। एवं इमो वि साहू तुज्जं नियगं च सारमोत्तूणं । निक्खतो तुज्झ घरे । करेउ इण्हं तु वाणिज्जं ।। वृ- यदि पुनरुक्तप्रकारेण क्षणमात्रकृतस्यापि धर्मस्यालाभेन नेच्छे त्तपो गृहीतुं ततो वक्तव्यमेव वाणिग्धर्मेण वणिग् न्यायेन शुद्धः स प्राह-कः पुनर्वणिग् धर्मो येनैष शुद्धः क्रियते । साधवो वदन्तिसमुद्रे संभ्रमे गमनेऽयं वक्ष्यमाणः । तमेवाह-वत्थाणाभरणेत्यादि । यथा वणिक् ऋणं कृत्वा प्रवहणेन समुद्रसमागाढस्तत्रपोते प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्रान्याभरणानि च शब्दाच्छेषमपिच नानाविधं क्रियाणकं सर्वं छर्दयित्वा परित्यज्य एकवृन्देन भावप्रधानं एकशब्दः एकतैव वृन्दं तेन एकाकी उत्तीर्णो वणिग् धर्मे वणिग्न्याये शुद्धो भवति । न ऋणंदाप्यते । एवमयमपि साधुस्तव सक्तमात्मीयंच सारं सर्वं तव गृहे मुक्त्वानिष्क्रान्तः संसारसमुद्रादुत्तीर्ण इति शुद्धो नधनिका ऋणमात्मीयं याचितुं लभन्ते, । तस्मान्न किञ्चिदत्रतवाभाव्यमस्तीति करोत्विदानीमेष स्वेच्छया पोतवाणिज्यं पोतवणिगिव निरृणो वाणिज्यमिति गतमनाप्तद्वारम् । अधुना वोधिकस्तेन द्वारप्रतिपादनार्थमाह-[भा. ११९७ ] बोहिय तेनेहिं हि एवि न मग्गणा साहुणो नियमसोय । अनुसासनमादीतो एसेव कमो निरवसेसो ||
वृ- बोधिकाः स्तेनाश्च प्रागुक्त स्वरूपास्तैर्हृते साधौनियमशो नियमेन साधोर्विमार्गणं कर्तव्यम् । तस्मिंश्च विमार्गणे कर्तव्ये अनुशासनादिको अनुशिष्टिप्रदानादिको धनप्रदानपर्यन्त एष एवानन्तरोदितक्रमो निरवशेषो वेदितव्यः । सम्प्रत्युपसंहार व्याजेन शिक्षामपवादं चाहतम्हा अपारयत्ते दिक्खज्जाणारिए य वज्जेज्जा ।
[भा. ११९८ ]
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org