SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५४ व्यवहार - छेदसूत्रम्-१.२/५२ प्रेरयन्ति । एतस्यापिप्रयोगस्याभावे पाषाण्डान्सहायान् कुर्याद्यद्वायो गणसारस्वतादिको बलीयान्तं सहायं कुर्यात् । तदभावे दूराभोगादिना प्रकारेणधनमुत्पाद्यतेनमोचयेत् । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेवगाथां विवरीषुराह-- [भा.११८७] सारखएणजंपसि जातो अन्नत्थतेवि आमंति । बहुजनविएणायंमि उथावच्चसुयादि आहरणं ।। वृ- यदि प्रभूत जन विदितो न भवति यथायं तद्देशजात इति ततः एवं ब्रूयात् । अहमन्यत्र विदेशे जातस्त्वं तुसादृक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि, । एवमुक्ते तेऽपि तत्रत्या आममेवमेतत् । यथायंवदतीति साक्षिणो जायन्ते, । अथ तद्देशजाततया प्रभूतजनविदितो वर्तते । ततस्तस्मिन् बहुजनविज्ञातेपूर्वोक्तंनवक्तव्यं किन्तुप्रबोधनाय स्थापत्यापुत्राद्याहरणंकथनीयम् । [भा.११८८] विज्जामंता जोगाअंतद्धाणं विरेयणं वापि । वरधनुयपुस्सभूती मुलिया सुहुमे यज्झाणंमि ।। वृ-विद्यादयो विद्यामन्त्रयोगाःप्रयोक्तव्यायेनतैरभियोजितः सन्मुत्कलयतिआहरणमादीत्यत्रादि शब्दव्याख्यानार्थमाह-गुटिकाप्रयोगतःस्वरभेदेन । उपलक्षणमेतत् ।वर्णभेदंवाकारयेद्यदिवाअन्तर्धानं ग्रामान्तरप्रेषणेन व्यावधानं, विरेचनंवास्लानतोपदर्शनाय कारयितव्योयेनकृच्छ्रणैषजीवतीतिज्ञात्वा । विसृज्यति यदि वा वरधनुरिव गुटिकाप्रयोगतः, पुष्पभूतिराचार्य इव सूक्ष्मध्यानवशतो निश्चलो निरुच्छ्वासस्तथास्यात्येन मृत इतिज्ञात्वा परित्यज्यते । [भा.११८९] असतीए विनवेंतीरायाणंसोव होज्ज अहाभिन्नो । तोसेकहिज्जइधम्मो अनिच्छमाणे इमंकुज्जा ।। वृ- एतेषां प्रयोगाणाम सति-अभावे राजानं विज्ञापयन्ति यथा तपस्विनमिह परलोकनिस्पृहमेनं व्रताच्चच्यावयतीति । अथ सोऽपिराजा तेन भिन्नो व्युद्ग्राहिता वर्तते ततः सेतस्य राज्ञः प्रतिबोधनाय धर्मः कथ्यते । अथ सधर्मं नेच्छति ततस्तस्मिन् धर्ममनिच्छति उपलक्षणमेतत् । निमित्तेन वातीतानागतरूपेणअनावार्य(द्रिय)माणे इदंवक्ष्यमाणंकुर्यात्तदेवाह[भा.११९०] पासंडेवसहाएगेण्हइतुझंपिएरिसं होज्जा। होहामोहसहाया तुब्भविजोवा गणोबलिओ ।। वृ- पाषण्डान्वासहायान् गृह्णाति अथ ते सहाया न भवन्ति तत इदं तान् प्रतिवक्तव्यम् । युष्माकमपीदृशंप्रयोजनंभवेत्भविष्यतितदायुष्माकमपिवयंसहायाभविष्यामः, एवंतान्सहायान् कृत्वा तद्बलतःस प्रेरणीयो यदिवा योगणोबलीयान्तंसहायंपरिगृह्णीयात् ।। [भा.११९१] एएसिं असतीएसंताविजया न होतिउसहाया। ठवणादूराभोगन लिंगेनवएसिउंदेति ।। वृ- एतेषां पाषण्डानां गणानां वा असति अभावे ये सन्तः शिष्टास्ते सहायाः कर्तव्याः । यदा तु सन्तोवासहायानभवन्ति,तदाठवणत्तिनिष्क्रामतायाद्रव्यस्य स्थापनाकृतातदानतःसमोचयितव्यो यदि वा दूराभोगणेन प्रागुक्तप्रकारेणाथवा यद्यत्र लिङ्गमचिरतं तेन धनमेषित्वा उत्पाद्य ददति । तस्मै वरवृषभागतमापन्नद्दारमिदानीमृणात(अनाप्त)द्वारमाह[भा.११९२] एमेव अनेंतस्स वि तवतुलणानवरि एत्थनाणत्तं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy