SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३८ व्यवहार -छेदसूत्रम्-१-२/४४. [भा.११०६] जइइच्छसिसा सेरी अचेयणातेन से चओनत्थि । जीवपरिग्गहिया पुनवादी असमंजसं समया ।। वृ- यदित्वमेतदिच्छसि अनुमन्यते यथा सासेरीति देशीवचनमेतत्यन्त्रमयी नर्मकी अचेतना तेन कारणेन से तस्याश्च कर्मोपचयो नास्ति वादिस्तनुः पुनर्जीव परिगृहीता जीवेनाधिष्ठिता जीवपरिग्रहीतत्वाच्चावश्यं तद्विरुद्धचेष्टातः कर्मोपचय सम्भवस्ततो या सेरी दृष्टान्तेन समता आपदिता साऽसमञ्जसमयुज्यमानाऽचेतनाचेतनत्वे च दृष्टान्तदान्तिकयोर्वेषभ्यात् । अत्राचार्य आह[भा.११०७] चेयणमचेयणंवा परतत्तंतेन दोवितुल्लाइं । नतयाविसेसयं एत्थ किंचभणतीसुणविसेसं ।। वृ-चेतनं वास्यादचेतनवाचेतनत्वाचेतनत्वविशेषस्यात्राप्रयोजकत्वात् । कथमप्रयोजकत्वमत आह-परतन्त्रत्वेन परायत्ततया । यतो द्वे अपि तुल्ये ततो न किञ्चिद्वेषम्यं । पर आह-न त्वया अत्र कर्मोपचयचिन्तायांकञ्चिदपिमनागपि विशेषितंयेनजीवपरिगृहीतत्वेऽप्येकत्रकर्मोपचयोभवत्येकत्र नेतिप्रतिपाद्यमाह अत्राचार्योभणतिब्रुते, शृणुभण्यमानं विशेषं । तमेवाह[भा.११०८] ननुसोचेव विसेसोजं एगमचेयणंस विन्नेयं । जहचेयणाविसेसोतहभणसुइमं निसामेह ।। वृ-ननुस एवं यन्त्र नर्तकी स्वाभाविक नर्तकी दृष्टान्तसूचितो विशेष एवं शरीरंजीवपरिगृहीतमपि परायत्ततयाचेष्टामानमचेतनमेवंस्वायत्ततयाप्रवृत्तेःसचित्तंसचेतनमिति ।परआह-यथैषचेतनेविशेषो निस्संदिग्धप्रतिपत्तिविषयोभवति । तथाभणतप्रतिपादयत आचार्यःप्राह-ततइदंवक्ष्यमाणंनिशमय आकर्णय । तमेवाह[भा.११०९] जो पेल्लितो परेणं हेऊवसणस्स होइकायाणं । तथ्य नदोसंदूच्छसिलोगेनसमंतहातंच ।। वृ-यः परेणप्रेरितःसचकायादीनांपृथिव्यादीनांव्यसनस्य संघट्टनपरितापनादिरूपस्य हेतुः कारणं भवति । तत्र तस्मिन् परेण प्रेरित तया काय व्यसनहेतौ न त्वं दोषमिच्छसि अनात्मवशतयां प्रवृत्तेः । कथंपुनर्दोषं नेच्छसीत्यत आह-लोकेन समंलोकेनसहलोकेतथा दर्शनतः इत्यर्थः । तथा हिलोको यो यत्रानात्मवशतया प्रवर्तते तं तत्र निर्दोषमभिमन्यते ततो लोके तथा दर्शनतस्तमपि कायव्यसने हेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य, तस्यापि परायत्ततया तथारूपासुचेष्टासुप्रवृत्तेः । एतदेवसविशेषंभावयति[भा.१११०] पासंतो विय काये अपञ्चलो अप्पगंविधारेउं । जहपेल्लितो अदोसो एमेवमिमंपिपासामो ।। वृ- यथा परेण प्रेरित आत्मानं विधारयितुं संस्थापयितुमप्रत्यलोऽसमर्थः सन् पश्यन्नपि कायान् पृथिवीकायिकादीन् विराधयन् अन्निकापुत्राचार्य इवादोषो निर्दोषः । एवमेव अनेनैव प्रकारेणापरायत्ततया प्रवृत्तिलक्षणेन इममपि क्षिप्तचित्तमदोषं पश्यामः । इह पूर्व प्रगुणीभूतस्य प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्तास्ततस्तानेवगुरुकादीन्प्ररूपयति[भा.११११] गुरुगो गुरुतराणोअहागुरुगोयहोईववहारो । __लहुओ लहुयतरागो अहालहुगोयववहारो ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy