SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उद्देश : २, मूलं : ४४, [भा. ११०० ] ३३७ शुद्धिमात्रनिमित्तं प्रायश्चित्तं दातव्यं ततस्तस्य प्रायश्चित्तस्य लघुकस्वरूपस्य गाथायां सप्तमी षष्ठ्यर्थे भवति । प्रस्थापनादानमिति सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदानाभावं भावयति[भा. ११०१] वड्ढति हायति उभयं, अवट्ठियं च चरणं भवे चउहा । खइयं तो वसमियं मीस अहखायखित्तं च ।। वृ- कस्यापि चारित्रं वर्धते, कस्यापि हीयते कस्यापि वर्धते हीयते च, कस्याप्यवस्थितं वर्तते । एते चत्वारो भङ्गाश्चारित्रस्य । साम्प्रतममीषामेव चतुर्णां भङ्गानां यथासंख्येन विषयान् प्रदर्शयति । खइयमित्यादि क्षपकश्रेणिं प्रतिपन्ने क्षायिकं चरणं वर्तते, उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणहानिमुपगच्छति । क्षायोपशमिकं तद्रागद्वेषोत्कर्षापकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं क्षिप्तं च पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तं चारित्रं चावस्थितं यथाख्यातचारित्रे सर्वथा रागद्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेस्ततो रागद्वेषाभावात्तदेवं । यतः क्षिप्तचित्ते चारित्रमवस्थितमतो ना सौ प्रायश्चित्तभागिति, पर आहननु सक्षिप्तचित्त आश्रवद्वारेषु चिरकालं प्रवर्तितः बहुविधं वाऽसमंजसं तेन प्रलपितंलौकलोकोत्तरविरुद्धं च समाचरितं । ततः कथमयमप्रायश्चित्तभाक्, अत्र सूरिराह [ भा. ११०२] कामं आसवदारेसु वड्ढितो पलवियं बहुविहंच । लोगविरुद्धाय एया लोगोत्तरियाय आइणा ।। वृ- काममित्यनुमतौ अनुमतमेतत् यथा स आश्रवद्वारेषु प्रवर्तितो बहुविधं च तेन प्रलपितं लोकविरुद्धानि लोकोत्तरिकानि च पदानि आचीर्णानि प्रतिसेवितानि [ भा. ११०३ ] नय बंधहेउ विगलित्तणेण कम्मस्स उवचओ होइ । लोकोविएत्थ सक्खी जह एस परव्वसो कासी ।। वृ- तथापि न च नैव तस्य च क्षिप्तचित्तस्य बन्धहेतुविकलत्वेन बन्धहेतवो रागद्वेषास्तद्विकलत्वेन तद्रहितत्वेन कर्मण उपचयो भवति-कर्मोपचयस्य रागद्वेषाधीनत्वात् तस्य च रागद्वेषविकलत्वात् न च तद्रागद्वेष विकलत्वं वचनमात्र सिद्धं, यतो लोकोऽप्यत्रास्मिन् विषये साक्षी यथा एष सर्व परवशोऽकार्षीदिति । ततो रागद्वेषाभावान्नकर्मोपचयस्तस्य तदनुगत्वात् । तथा चाहरागद्दोसानुगया जीवा कम्मस्स बंधगा होंति । रागादि विसेसेणय विबंध विसेसो वि अविगीतो । [भा. ११०४ ] वृ- रागद्वेषाभ्यामनुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततो रागद्वेषतारतम्येन बन्धविशेषो बन्धतरतम भावोऽविगीतो विप्रतिपन्नः । ततः क्षिप्तचित्तस्य रागद्वेषाभावतः कर्मोपचयाभावः । अमुमेवार्थ दृष्टान्तेन दृढयति [भा. ११०५ ] कुणमाणी विय चिट्ठा परतंताण ट्ठिया बहुविहाओ । किरियाफलेण जुज्जइ, न जहा एमेव एवं पि ।। वृ- यथा नर्तकी यन्त्रकाष्टमयी परतन्त्रा परायत्ता परप्रयोगत इत्यर्थः । बहुविधा बहुप्रकारा अपि, तुशब्दोऽपि शब्दार्थः । चेष्टा कुर्वाणा क्रियाफलेन कर्मणा न युज्यते । एवमेव अनेनैव प्रकारेण एवमपि क्षिप्तचित्तमनेका अपिविरुद्धाः क्रियाः कुर्वाणः न कर्मोपचयं पश्यति, अत्र परस्य मतमाशङ्कमानः आह 21 22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy