________________
. व्यवहारं - छेदसूत्रम्-१-२/४४ प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः सम्बन्धिनः स्वजना वदेयुर्वयमौषधानि वैद्यं वासं वा संप्रयच्छामः । परमस्माकमासन्ने प्रवेशे स्थित्वा यूयं प्रतिचरथ तत्र यदिशोभनो भावस्तदेवं क्रियते । अथ गृहस्थीकरणाय तेषां भावः । तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते तत्र च त्रिष्वपि आहारोपधिशय्यासु यतना कर्तव्या । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव विवरीषुः प्रथमतो रन्नो निवेइयंमीत्येतद्वयाख्यानयति[भा.१०९६] पुत्तादीनं किरियंसयमेव घरंमि कोइकारेज्जा ।
अनुजाणते यतहिं इमे च गंतुंपडियरति ।। वृ- यदि कोऽपि राजा अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे स्वयमेव साधुनिवेदनात् प्राक् आत्मनैवपुत्रादिनां क्रियां चिकित्सां कारयतितदा तस्मै निवेदिते युष्मदीयः क्षिप्तचित्तोजातइति कथितेयदितेअनुजानतेयथा तमत्रसमान यतेतितक्तः सतत्रनीयतेनीतंचसन्तमिमेऽपिगच्छवासिनः साधवो गत्वा प्रतिचरन्ति ।। [भा.१०९७] ओसह वेज्जे देमो पडिजग्गहणंतहिं ठियं चेव ।
तेसिं विरूव भावंनदेतिमानं गिही कुज्जा ।। वृ- कदाचित्स्वजनाः ब्रूयुः यथा औषधानि वैद्यं च वयं दद्मः । केवलमिह अस्मिन्नस्माकमासन्ने प्रदेशे स्थितंणमित्येन प्रतिजाग्रत तत्र यदि तेषांभावो विरूपो गृहस्थी करणात्मकस्ततः तेषां तथारूपं भावमिङ्गिताकारकुशलाज्ञात्वानददतिनप्रयच्छतिनतेषामासन्नेप्रदेशेनयन्तीतिभावः ।कुतइत्याह-माएतंगृहस्थी कुर्युरितिहेतोः सम्प्रतितीसुविजयणेत्येतद्व्याख्यानयति[भा.१०९८] आहार उवहिसेज्जा उग्गम उप्पायणा दिसुजयंता ।
वायादिखोभंमि विजयंतिपत्तेयमिस्सावा ।। वृ- आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु आदिशब्दादेषणादि दोषपरिग्रहः यतन्ते प्रयत्नपरा भवन्ति । उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचारका अन्येपि च यतमानास्तं प्रतिचरन्तीतिभावः । एषायतनादैविक क्षिप्तचित्तत्वेदृष्टव्या एवंवातादिनाधातुक्षोभेऽपिप्रत्येकंप्रत्येक सांभोगिका मिश्रावा असांभोगिकैः संमिश्रा वापूर्वोक्तप्रकारेण यतन्ते ।। [भा.१०९९] पुबुद्दिठो उविही इह विकरेंताण होति तहचेव ।
तेगिच्छंमि कयम्मी आदेसा तिन्निसुद्धो वा ।। . वृ- यः पूर्वं कल्पाध्ययने ग्लानसूत्र उद्दिष्टः प्रतिपादितो विधिः स एव इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्यं कुर्वता तथैव भवति । चैकित्स्येच चिकित्सासाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रय आदेशा एके ब्रुवते । गुरुको व्यवहारः प्रस्थापयितव्योऽपरे ब्रुवते लघुकोऽन्ये आचक्षते लघुस्वकः । तत्र तृतीय आदेशः प्रमाणं सूत्रोपदिष्टत्वात् । अथवा स शुद्धो न प्रायश्चित्तभाक् परवशतया रागद्वेषाभावेन प्रतिसेवनादेतदेव विभावयिषरिदमाह[भा.११००] चउरो यहुंतिभंगातेसिंवयणंमिहोतिपनवणा।
परिसाएमज्झमि पट्टवणा होइपच्छित्तै ।। वृ-इह चारित्रविषये वृद्धिहान्यादिगताश्चत्वारोभवन्ति भङ्गास्ते चाग्रे च वक्ष्यन्ते । तेषांचभङ्गानां वचनेन गाथायां सप्तमी तृतीयार्थे भवति । पर्षदो मध्ये प्रज्ञापना प्ररूपणा तदनन्तरं यदि भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org