________________
३३५
उद्देशकः २, मूलं:४४, [भा. १०९१] [भा.१०९१] उव्वरयस्सय असती पुव्वखया सती यखंमए अगडे ।
तस्सोवरिंचचक्कं न फिड्डइ जइउप्फिडतोवि ।। वृ-अपवरकस्य असति अभावे पूर्वखनि [खा] तकूपे निर्जले स प्रक्षिप्यते तस्याप्यभावे अवटो नवः खन्यते, खनित्वा तत्रसप्रक्षिप्यते । प्रक्षिप्य चतस्याऽवटकस्योपरि चक्रं रथाङ्गंस्थगनाय दीयते, यथासउस्फिटन्नपि उत्प्लवमानोऽपि नस्फिटतिन बहिर्गच्छति ।।
साम्प्रतमाहारविगिञ्चणेत्यादिव्याख्यानयति[भा.१०९२] निद्धमहुरंचभत्तं करीस सेज्जा नोजहावाऊ ।
दव्वियधातुक्खोभेनाउंउस्सगतो किरिया ।। वृ-यदि वातादिनाधातुक्षोभोऽस्य सञ्जातइति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरंच तस्मैदातव्यम् । शय्याचकरीषमयी कर्त्तव्या, साहि सोष्णाभवति । उष्णेच वातश्लेष्मापहारः । तथा किमयं दैविको देवेन भूतादिना कृत उपद्रव उतधातुक्षोभज इतिज्ञातुंदेवताराधनाय उत्सर्गः क्रियते । तस्मिंश्च क्रियमाणे यदा कंपितया देवतयाकथितंतदनुसारेण ततः क्रिया कर्तव्या । यदि दैविक इति: सम्प्रति ‘रक्खंताणय फिटिए' इत्यादिव्याख्यानयति[भा.१०९३] अगडे पलायमग्गणअन्नगणावाविजेन सा रक्खो ।
गुरुगायजंचजत्तोतेसिंच निवेयणा करणं ।। वृ-अगडे इतिसप्तमीपञ्चम्यर्थे । ततोऽयमर्थः,अवटात्कृपात् उपलक्षणमेतत्अपवरकाद्वायदि पलायते, कथमपि ततस्तस्य मार्गणमन्वेषणं कर्तव्यम् । तथा ये तत्रान्यत्रवा आसन्ने दूरे वा अन्यगणा विद्यन्तेतेषांचनिवेदनाकरणंतेषामपिनिवेदनकर्तव्यमितिभावः । यथास्मदीय एषःसाधुः क्षिप्तचित्तो नष्टो वर्ततेततस्तैरपिगवेषणीयःदृष्टेचसंग्रहणीयः । यदिपुनर्नगवेषयन्तिस्वगणवर्तिनोऽन्यगणवर्तिनो वातदातेषांप्रायश्चित्तंचत्वारो गुरुमासाः, यच्चकरिष्यतिपट्जीवनिकायविराधनादिकंतन्निमित्तंतेषां प्रायश्चित्तमिति । [भा.१०९४] छम्मासेपडियरिउं अनिच्छमाणेसुभुज्जतरगोवि ।
कुलगणसंघसमाए पुव्वगमेणं निवेएज्जा ।। वृ-पूर्वोक्तेन प्रकारेण तावत्सप्रतिचरणीयो यावत् षण्मासाभवन्ति, ततो यदि प्रगुणोजायतेतर्हि सुन्दरमथनप्रगुणीभूतस्ततोभूयस्तरकमपितस्यप्रतिचरणंविधेयं ।अथतेसाधवः परिश्रान्ताभूयस्तरकं प्रतिचरणं नेच्छंति, । ततस्तेष्वनिच्छत्सुकुलगणसङ्घसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण तस्मै निवेदनीयं । निवेद्य चतदाज्ञया वर्तितव्यमितिअथससाधुः कदाचिद्राजादीनांस्वजनः स्यात्तत इयं यतना विधेया[भा.१०९५] रनोनिवेइयंमितेसिंवयणेगवेसणा होति ।
ओसह वेज्जासंबंधुवस्सएतीसुवीजयणा ।। बृ-यदिराज्ञोऽन्येषांवासपुत्रादिकोभवेत्ततोराज्ञउपलक्षणमेतत् । अन्येषांवास्वजनानांनिवेदनं क्रियते,तथा युष्मदीयएषपुत्रादिकः क्षिप्तचित्तोजातइतिएवं निवेदितेयदिब्रुवतेराजादयोममपुत्रादिनां क्रियास्वयमेव क्रियमाणा वर्तते । ततइहैव तमप्यानयतेति ततः सतेषां वचनेन तत्र नीयते । नीतस्य चतस्य तत्र गवेषणाभवति । अयमत्रभावार्थः । साधवोऽपितत्रगत्वा औषध भेषजानिप्रयच्छन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org