________________
३३४
व्यवहार - छेदसूत्रम्-१-२/४४ [भा.१०८७] सस्सगिहादीन डहेतेने अवसोसयंवाही रेज्जा।
मारणपिट्टणमुभये तद्दोसाजंचसेसाणं ।। वृ-सस्यंधान्यं तद्गृहंसस्यगृहंतदादीनि आदिशब्दात्शेषगृहापणादिपरिग्रहः दहेत क्षिप्तचित्ततया अग्निप्रदानेन भस्मसात्कुर्यात् । एतेनमापन[ध्यामन] मितिव्याख्यातम् । यदिवास्तेनयेत[चोरयेत्] अथवा स स्वयं किमपि भिद्येत [केनापि हियेत] अनेन स्तैन्यं व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात् किमुक्तं भवति । स क्षिप्तचित्तत्वेन परवश इव स्वयमात्मानं मारयेत् पिट्टयेत्, वा परं मारयन् पिट्टयित्वा सपरेण मार्येत, पिट्येत वा इति तद्दोसा जंच सेसाणमिति तस्य क्षिप्तचित्तस्य दोषात् यच्च शेषाणां साधूनां मारणं पिट्टनं वा । तथा हि-स क्षिप्तचित्तः परान् यदा व्यापादयति पिट्टयति वा, तदापरे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युस्तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणितुस्थानानिसुगमानीतिन व्याख्यानयति ।यदुक्तंतस्माद्रक्ष्यन्तियतनयेति ।तत्रयतनामाह[भा.१०८८] महिड्डीएउठनिवेसणायआहारविगिंचणा विउस्सग्गो ।
रक्खंताणय फिडिए अगवेसणेहोतिचउगुरुगा ।। वृ- महर्द्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम् । तथा उठनिवेसणा इति मूदुबन्धैस्तथा संयमनीयो यथा स्वयमुत्थानं निवेशनं च कर्तुमीशो भवति । तथा यदि वातादिना धातुक्षोभोऽस्याभूदिति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्धमधुरमधुरादिरूप आहारः प्रदातव्यः । विगिंचणत्ति उच्चारादेस्तस्य परिष्ठापनं कर्तव्यं । यदिपुनर्देवताकृत एष उपद्रव इति ज्ञायते तदा प्रासुकैषणीयेन क्रिया कार्या तथा विउस्सग्गो इति किमयं वातादिना क्षोभ उत देवताकृत उपद्रव इति परिज्ञानाय देवताराधनार्थंकायोत्सर्गः करणीयः । ततस्तस्या आकंपितया कथितेसतितदनुरूपोयत्नो यथोक्तः स्वरूपः करणीयः । एवं रक्षतामपि यदि स कथञ्चित् स्फिटितः स्यात् । ततस्तस्य गवेषणं कर्तव्यं, अन्यथाऽगवेषणे प्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतोमहर्धिकद्वारं विवृणोति[भा.१०८९] अम्हएत्थ पिसातो रक्खंताणंपि फिट्टइकयाई।
सहु परिरक्खेयव्योमहडिएरक्खिएकहणा ।। . वृ-रक्षा अस्यास्तीतिरक्षको रक्षायां नियुक्तो राक्षिको वा तस्मिन् रक्षकेराक्षिके ग्रामस्य नगरस्य वा रक्षके कारणिके महर्द्धिक कथना कर्तव्या । तस्मै कथयितव्यमिति भावः । यथा अत्र तस्मिन्नुपाश्रये अस्माकं रक्षतामपि एष पिशाचो ग्रथिलः कदाचित् स्फिटति अपगच्छतिस हु निश्चितं परिरक्षितव्यः प्रतिपन्नवत्सलत्वादिति व्याख्यातंमहर्द्धिकद्वारमधुना ‘उठनिवेसनाय' इतिव्याख्यानयति[भा.१०९०] मिउबंधेहितहाणंजमेतिजहसो सयंतुउठेति ।
उव्वरगसत्थरहित वाहिकुदंडे असुन्नंच ।। वृ- मृदुबन्धैः कोमल बंधैस्तथा णमितितंक्षिप्तचित्तं यमयन्ति बध्नन्ति यथा स्वयमुत्तिष्ठति । तु शब्दस्यानुक्तसमुच्चयार्थत्वान्निविशतेचतथासतस्मिन्नपवरके स्थाप्यते । यत्रन किमपिशस्त्रभवति । अन्यथा स क्षिप्तचित्ततया युक्तमयुक्तं चाऽजानानः शस्त्रं दृष्टा तेनात्मानं व्यापादयेत् । तस्य चापवरकस्य द्वार बहिः कुदण्डेन वंशटोकरादिना बध्यते न येन निर्गत्यापगच्छति तथा अशून्यं यथा भवति । एवंसवारेणप्रतिवारेणजाग्रियते ।अन्यथाशून्यमात्मानमुपलभ्यबहुतरंक्षिप्तचित्तीभूयात् ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only