________________
उद्देशक : २, मूलं : ४१, [भा. १०६४ ]
३२९
व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नव्यवहारतपः प्रायश्चित्त एवमेवालोचनाप्रदानमात्रतः शुद्धः क्रियते कारणे यतनया प्रतिसेवनात् ।
मू. (४२) अनवट्टप्पं भिक्खुं गिलायमाणं नोकप्पइ तस्स गणावच्छेइयस्स निहित्तए, अगिलाए तरस करणिअं वैयावडियं जाव तओ रोगायंकाओ विप्पमुक्को तओ पच्छातस्स अहालहुसए नामं व्यवहारे पट्टवियव्वेसिया ।।
वृ- अथास्य सूत्रस्य कः सम्बन्ध उच्यते
[भा. १०६५ ]
पच्छित्तं खलु पगयं निज्जूहण ठाणुवत्तए जोगो । होति तवो च्छेदो वा गिलाण तुल्लाहिगारो वा
वृ- योगः सम्बन्धः पूर्वसूत्रेण सहास्य सूत्रस्यायं भवति प्रायश्चित्तं खलु प्रकृतमधिकृतं, ततः पायश्चित्तप्रस्तावादधिकृतस्याप्यनवस्थाप्यसूत्रस्यावकाशः । अथवा प्राक्तनसूत्रेषु पारिहारिक उक्तः । पारिहारिकस्य गच्छसामाचार्या निर्यूहणं ततोऽनुवर्तते निर्यूहणमिति निर्यूहणं प्रस्तावादनवस्थाप्यस्यापि निर्यूहस्य विधिप्ररूपणा यदि वा तवोच्छेदो वेति प्राक्तपोर्हं प्रायश्चित्तं प्रतिपन्नस्य सूत्रमुक्तमिदानीं च्छेदाह. प्रतिपन्नस्य वक्तव्यम् । छेदश्च द्विधा-पर्याय व्यवच्छेदो मण्डलीव्यवच्छेदश्च । ततो मण्डल्याव्यवच्छिन्नमनवस्थाप्यमपेक्ष्याधिकृतसूत्रस्योपनिपातः । अथवा पूर्वसूत्रे ग्लायतो विधिरुक्तोऽनेनापि ग्लायतो विधिरुच्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या-अनवस्थाप्यं नवमप्रायश्चित्तप्रतिपन्नभिक्षं ग्लायन्तं न कल्पते । यस्य समीपगतस्य गणायच्छेदिनो निर्यूहितुं निराकर्तुं किन्तु तस्य अगिलया राजवेष्टिमिवाननु मन्यमानेन सर्वज्ञादेश इति बुद्धया कर्मनिर्जरणनिमित्तं तस्य करणीयम् वैयावृत्यं तावत् यावत् रोगातङ्कात् विप्रमुक्तो भवति । ततः पश्चात्तस्य प्रगुणी भूतस्य सतो यथा लघुस्वको यथोदितस्वरुपो व्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यात् ।।
मू. (४३) पारंचियंति भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदितस्स निज्जूहित्तए अगिलाए तस्स करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के ततो पच्छा । तस्स आहालहुस्सगो ववहारो पठवियव्वे सिया ।।
बृ- अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध उच्यते[ भा. १०६६ ]
Jain Education International
सगणे गिलायमाणं कारणपरगच्छमागयं वावि । माह नकुखानिजहगोत्तिइइ सुत्त संबंधो ।।
वृ- यथा अनवस्थाप्यस्य कर्तव्यं तथा प्रतिपन्नपारांचितप्रायश्चित्तस्यापि न पुनरेष निर्युहितो निष्काशित इति कृत्वा स्वगणे ग्लायन्तंरोगातङ्क वशतो ग्लानिमुपगच्छन्तं यदिवा प्रागुक्तौरशिवादिभिः कारणैः परगच्छमागतं मा हु निश्चित्तं वृत्यावृत्यविषयं न कुर्यात् न कार्षीत् । किन्तु तस्यापि वैयावृत्यस्यावश्यमगिलया कर्तव्यं । तथा प्रतिपन्नपाराञ्चितप्रायश्चित्तस्यापि तत्र स्वगणे क्षेत्रबहिः स्थितस्याचार्यः स्वयमुदन्तं वहति । परगणेऽपि कारणवशादायातस्य तदीय आचार्यः करोति । यथा सूत्रं वैयावृत्यामित्येष पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या कर्तव्या । साच प्राग्वत् साम्प्रतमनवस्थाप्य पाराञ्चितयोः स्वरुपमतिदेशत आह
[भा. १०६७ ]
अनवट्टप्पो पारांची, पुव्वं भणितो इमं तु नाणत्तं । कायव्व गिलाणस्स उ अकरणे गुरुगाय आणादी ।।
For Private & Personal Use Only
www.jainelibrary.org