SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२८ व्यवहार - छेदसूत्रम् - १- २/४१ [ भा. १०६०] लहुओ लहुअतरागो अहा लहुगोय ववहारो ।। लहुसी लहसतरागो अहा लहुसो य होइ ववहारो । एएसिं पच्छित्तं वोच्छामि अहानुपुवीए ।। वृ- व्यवहारस्त्रिविधस्तद्यथा गुरुको लघुको लघुस्वकश्च तत्र यो गुरुकः स त्रिविधस्तद्यथा गुरुको गुरुतरको यथा गुरुस्वकश्च लघुकोपि त्रिविधस्तद्यथा लघुः लघुतरो यथा लघुस्वको, लघुस्वकोपि त्रिविधस्तद्यथा लघुस्वो लघुस्वतरको यथा लघुस्वकश्चः एतेषां व्यवहाराणां यथानुपूर्व्या यथोक्त परिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवत्येतेषु व्यवहारेषु समुपस्थितेषु यथा परिपाट्या प्रायश्चित्तपरिमाणं अभिधास्ये यथा प्रतिज्ञातमेव करोति । [भा. १०६१] गुरुगो य होइ मासो गुरुग तरागो भवे चउम्मासी । अह गुरुगोच्छम्मासो गुरुगयपक्खंमि पडिवत्ती ।। वृ- गुरुको नाम व्यवहारो मासो मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः । एवं गुरुतरको भवति चतुर्मास चतुर्मास परिमाणः यथा गुरुकः षण्मासः षण्मासपरिमाणः । एषा गुरुकपक्षे गुरुकव्यवाहारे त्रिविधे यथाक्रमंप्रायश्चित्तप्रतिपत्तिः सम्प्रति लघुक लघुस्वकव्यवहारविषयं प्रायश्चित्तप्रमाणमाह [ भा. १०६२] तीसा य पणवीसा, वीसा पनरसेवय । दसपंचयदिवसाई, लहु सगपक्खंभि पडिवत्ती ।। " 'वृ- लघुको व्यवहारस्त्रिंशद्दिवसपरिमाणः । एवं लघुतरक पञ्चविंशति दिनमानः । यथा लघुस्वको विंशति विंशति दिनमानः । एषा लघुकव्यवहारे त्रिविधे यथाक्रमंप्रायश्चित्तप्रतिपत्तिः । तथा लघुस्वको व्यवहारः पञ्चदश पञ्चदशदिवस प्रायश्चित्तपरिमाणः । एवं लघुस्वतरको दशदिवसमानो यथा लघुस्वकः पञ्चदिवसानि पञ्च दिवस प्रायश्चित्तानि परिमाणः । एषा लघुस्वव्यवहारपक्षे प्रायश्चित्तपरिमाणप्रतिपत्तिः । अथ कं व्यवहारं केन तपसा पूरयतीति प्रतिपादनार्थमाह [ भा. १०६३] गुरुगं च अट्टमं खलु गुरुगतरांगं च होइ दसमं तु । अह गुरुग दुवारसमं गुरुगपक्खमि पडिवत्ती ।। वृ- गुरुकं व्यवहारं मासपरिमाणं अष्टमं कुर्वन् पुरयति । किमुक्तं भवति ? गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति दशमेन वहतीत्यर्थः । यथा गुरुकं षण्मासप्रमाणं व्यवहारं द्वादशकं कुर्वन् द्वादशमेनेत्यर्थः पूरयति एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये ततः प्रतिपत्तिः ।। [ भा. १०६४ ] छट्टं च चउत्थं वा आयंबिल एगट्ठाण पुरिमड्डुं । निव्वीयं दायव्वं अहा लहुस्सम्मि सुद्धोवा || बृ- लघुकंव्यवहारं त्रिंशद्दिनपरिमाणंषष्टं कुर्वन् पूरयति । लघुतरकं पढ़चविंशद्दिवसपरिमाणव्यवहारं चतुर्थं कुर्वन् यथा लघुकव्यवहारं विंशति दिवसमानमाचाम्लं कुर्वं॑ एषा लघुकत्रिविधव्यवहार पूरणे तपः प्रतिपत्तिः । तथा लघुकस्वभावव्यवहारं पञ्चदशदिवस परिमाणमेकस्थानकं कुर्वन् पूरयति । लघुतरस्वकव्यवहारं दशदिवस परिमाणं पूर्वार्धं कुर्वन्यथा लघुस्वकव्यवहारंपञ्चदिनपरिमाणं निर्विकृतिकं कुर्वन् पूरयति । तत एतेषुगुरुकगुरुतरकादिषु व्यवहारेष्वनेनैव क्रमेण तपोदातव्यं । यदिवा यथा लघुस्वके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy