________________
उद्देशक : २, मूलं : ४०, [भा. १०३८ ]
३२३
साली चरइ केयारसाभी आगतो । तं वसभं पविठं पासिऊणं तं बार ढिक्कयं । ततो सरमादीहिं तं वसभं परितावेति । ताहे तेनं परिताविएणं इमं कयं ।
[ भा. १०३९]
जंपि न चिन्नंतं तेन चमदियं पेल्लियं वसहराए । केयारेक्कदवारे पोयालेणं निरुद्धेणं ।।
वृ- केदारसक्ते एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरुद्धेन पोयालेन सांढवृषभेन यदपरेषु केदारेषु न चीर्णं तदपि शरादिभिः परिताप्यमानेन इतस्ततः परिभ्रमता चमढियंति विनाशितं पेल्लियं चेति पातितं शीघ्रं । एष दृष्टान्तोऽपिर्थोपनयः
[ भा. १०४० ]
तनुयंमिपि अवराहे कयंमि अनुवाय चोइएणं तं । सेसचरणं पि मिलियं अपसत्थपसत्थ बिइयंतु ।।
वृ एवं वृषभदृष्टान्तगतेन प्रकारेण स्तोकेऽप्यपराधे कृते अनुपायेन उपायाभावेन यश्चोदितस्तेनानुपायश्चोदितेनाधिकृतप्रतिसेवनातः शेषं यञ्चारित्रमवतिष्ठते तदपि लिङ्गत्यागादिना मलिनं क्रियते । इदमप्रशस्तमुदाहरणम्, द्वितीयंतूदाहरणं प्रशस्तं तच्चेदम्-अन्नो केयारसामी, वसमं पासिऊणं दुवारस्स एगपासेठिच्चासद्दं करेति । ततो सो वसभोभीतो तेन दुवारेण निप्फडत्ति निप्फडंतो य लेढुमादीहिं आहतो । एवं तस्स खेत्तमलणादिया पुव्युत्ता दोसा न जाया । एवं आयरिएण वि सो उववाएण चोएयव्वो जहा न रुसति । ततो पुव्वुत्तो एगो वि दोसो न संभवति । व्याख्यातं प्रथमं सूत्रमधुना द्वितीयं व्याचिख्यासुः प्रथमतः सूत्रेण सह सम्बन्धमाह[भा. १०४१]
तेने व सेविएणं असंथरंतो वि संथरो जातो । बितितो पुन सेवंतो अकप्पियं नेव संथरंति ।।
वृ- अनन्तरसूत्राभिहितोऽसंस्तरन्नपि तेनैव प्रागुक्तेनाकल्पिकेन सेवितेन प्रतिसेवितेन संस्तरो विवक्षिताऽनुष्ठानवहनसमर्थो जातः द्वितीयः पुनरधिकृतसूत्रोक्तो अकल्पिकमपि प्रतिसेवमानो नैवं संस्तरति । नैवाधिकृतानुष्ठानवहन समर्थ उपजायते । ततोऽसंस्तरतो विधि ख्यापनार्थमधिकृत सूत्रारम्भः । [भा. १०४२ ]
एमेव यबीयसुत्तेण नाणत्तं नवरं असंथरं तंमि । करणं अनुपरिहारी चोयगगोणीए दिठतो ।।
वृ- यता प्रागुक्तसूत्रेऽभिहितमुभयबलं परियागमित्यादि एमेव अनेनैव प्रकारेणास्मिन्नप्यधिकृते द्वितीये सूत्रे वक्तव्यं । नवरमत्र नानात्वमिदमसंस्तरति अकल्पिकप्रतिसेवनेनापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः यन्न शक्नोति परिहारिकः कर्तुं तद्भणितः सन् करोत्यनुपरिहारिक इति भावः । चोयगगोणीए दिठतो इति पश्चाद्व्याख्येयम् । सम्प्रति यदनुपरिहारिणा कर्तव्यं तदाह
[भा. १०४३]
पेहा भिक्खवग्गहणे उट्टंतनिवेसणे य धुवणेय ।
जं जं न तरइ काउं, तं तं से करेइ बितिओउ ।।
वृ- प्रेक्षाया भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणो निवेशने चानुपरिहारिणः करणं भवतीति शेषः । इयमत्र भावना यदि परिहारिको भाण्डं प्रत्युपेक्षितुंन शक्नोति ततोऽनुपारिहारिकंब्रूते प्रत्युपेक्षस्वेदं भाण्डकमिति । ततो अभिधत्तेभिक्षामट; ततो भिक्षामटित्वा ददाति । एवमुत्थानं यदिकर्तन शक्तस्तत उत्थापयति । उपवेष्टुमशक्तमुपवेशयति लेपकृदादिना खरंटितं पात्रबन्धादि यदि प्रक्षालयितुमशक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org