________________
३२४
व्यवहार - छेदसूत्रम् - १- २/४० स्तदातदपि प्रक्षालयति । अत्र चोयगगोणीए दिट्टंतो इत्यस्यावकाशः । चोदकः प्राह यदि नाम तस्यानु परिहारिणा कर्तव्यं ततः किमुक्तमेव करोति सर्वं कस्मान्न कुरुते तथाहि यथा भिक्षाहिण्डनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्ते मामुत्थापयेति तमनुपारिहारिक उत्थापयति । तथा भिक्षामटित्वा कस्माद्भक्तमानेतुं न ददाति यथा वा भणितः सन् भिक्षामटित्वा भिक्षामानेतुं तस्मै प्रयच्छति, तथा भाण्डप्रत्युपेक्षणादिकमप्यभणित एव कस्मान्न करोति । सूरिराह- गोण्यात्र दृष्टान्तः । यथाकस्यापि गौर्वातादिना भग्नशरीरामुपविष्टामुत्थातुमशक्नुवन्तीं पुच्छे गृहीत्वा गोनायक उत्थापयति । साचोत्थिता सती स्वयमेव चारिं चरिंतु याति । यदि पुनरसमर्था चारि चरणाय गंतु तदा चारि पानीयं चानीय ददाति । एवं च तावत्करोति यावद्बलिष्टोपजायते । एवं च पारिहारिकोऽपि यत्कर्तुं न शक्नोति तत्तत् से तस्य द्वितीयोऽनुपारिहारिकः करोति । यत्पुनः कर्तुमलं तत्स्वयमेवानिगूहित बलवीर्यः करोति । एवं नाम तेनवीर्याचारोऽनुचीर्णो भवति ।
सम्प्रति यदुक्तमण्ड परिहारिणं कीरमाणं वेयावच्चं जं साएजति तत्र साइजणामाहजसे अनुपरिहारी करेइ तं जइ बलंमि संतंमि ।
[भा. १०४४ ]
ननिसेहइ सा साइजणा उ तहियं तु सठाणं ।।
वृ- यत् से तस्य परिहारिणोऽनुपरिहारी करोति तद्यदि तेन क्रियमाणं सत्यपि बलेऽपिशब्दोऽत्रानुक्तोऽपि सामर्थ्याद्लभ्यते । न निषेधते न निवारयति सा नामसाइज्जणा स्वादना तत्र च तस्यां च स्वादनायां क्रियमाणायां प्रायश्चित्तं स्वस्थानम् किमुक्तं भवति ? प्रथमोद्देशके येषु -स्थानेष्वालपनादिषु लघव उक्तास्तेषु स्थानेष्वस्य गुरुकादातव्याः, अनुमननाऽध्यवसायस्याति प्रमादहेतुत्वात् ।
मू. (४१) परिहारकल्पट्ठियं भिक्खुंगिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स णिज्जूहितए, अगिलाए तस्स करणिज्जं वेयावडियं० जाव ततो रोगाओ विप्पमुक्को ततो पच्छा तस्स अहालहुस्सय नामं ववहारे पट्टवेयव्वेसिया ।।
वृ- अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबंध: ? उच्यते[भा. १०४५]
तव सोसियस्स वाऊ, खुभेज्ज पित्तं व दोवि समगं वा । सन्नग्गि पारणंमी, गेलन्नमयं तु संबंधो ।।
वृ- तपः शोषितस्य धीरपरिहारतपसा शोषमुपागतस्य वातः क्षुभ्यते । यदि वा पित्तं अथवा द्वयमपिवातपित्ते समकं क्षुभ्येयातां, ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ पारणे कृते सति ग्लानत्वमुपजायते । ततो ग्लानस्य सतो विधिख्यापनार्थमेतत्सूत्रमुपागतमित्येषे सूत्रस्य सम्बन्धः । अनेन सम्बन्धेन आयातस्यास्य व्याख्या- परिहारकल्पस्थितं भिक्षु ग्लायन्तं यस्य सकाशमागतस्तस्य गणावच्छेदिनो न कल्पते निर्यूहितुमपाकर्तुवैयावृत्त्या करणादिना किन्त्वग्लान्या तस्य करणीयं वैयावृत्यं तावद्यावत्स रोगातङ्काद्विप्रमुक्तो भवति । ततः पश्चात्तस्य परिहारिणो लहुस्सगत्ति स्तोको नामव्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यादिति सूत्रं संक्षेपार्थः व्यासार्थं तु भाष्यकृद्विवक्षुर्यः कारणैः स ग्लायति तान्यभिधित्सुराह
[भा. १०४६]
Jain Education International
पढमबिइएहिं न तरइ गेलन्नेणं तवो किलंतो वा । . निजूहणा अकरणं ठाणं च न देइ वसहीए ।।
For Private & Personal Use Only
www.jainelibrary.org