________________
उद्देश : २, मूलं : ३७, [भा. १०२४ ]
३१९
सतोः प्रायश्चित्तस्थापनापत्तौ स्वगणे इतरस्मिन् परगणे वा गीतार्थानां मिलित्वा ताभ्यां शोधिं शुद्धतपः प्रतिपद्यते अगीतार्थत्वेन परिहारतपो योग्यताया अभावात् ।
मू. (३८) बहवे साहम्मिया एगतो विहरंतिएगे तत्थ अन्नयरं अकिच्चट्टाणंपडिसेवित्ता आलोएज्जा, तत्थ ठवणिज्जं च ठवित्ता करणिज्जं वेयावडियं ।
वृ - बहवः साधर्मिका एकतः एकत्र स्थाने विहरन्ति । तत्रतेषां मध्ये एको गीतार्थोऽन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत । आलोचनानन्तरं परिहारतपोदाने स्थापनीयं प्रागुक्तस्वरूपं स्थापयित्वा अनुपारिहारिकेण तस्य करणीयं वैयावृत्यमित्येष सूत्रार्थः । एनमेव भाष्यकृत्सविशेषमाहएमेव इयत्ते जइ एगो बहुगमज्झे आवज्जे । आलोयणगीयत्थे सुद्धे परिहार जह पुव्विं ।।
[भा. १०२५]
वृ- एवमेव अनेनैव प्रागुक्तेन प्रकारेण यद्येको बहुषु मध्ये अवतिष्ठमानः प्रायश्चित्तस्थानमापद्ये । ततस्तेन तत्क्षणं गीतार्थे गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि सोऽगीतार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम् । अथ गीतार्थस्ततः परिहारतपस्तच्च यथा स्थापनीयं स्थापना पुरस्सरं पूर्वमुक्तं तथात्रापि वक्तव्यमियमत्र भावना ते बहवे साधर्मिका गीतार्था वा भवेयुः । गीतार्थमिश्रा वा । तत्र गीतार्थमिश्रेषु जधन्येनैको गीतार्थो भवेत् उत्कर्षतो द्वित्रादिकास्तत्र यदि सर्वे गीतार्था यदिवा द्वित्रादिका गीतार्थाः प्राप्यन्ते तदा एकः कल्पस्थितः क्रियते । एकोऽनुपारिहारिकः । अथ सर्वे आचार्याव्यतिरेकेणागीतार्थास्ततः शुद्धतपोदेयम् । अथाचार्य एव प्रायश्चित स्थानामापन्नस्ततः सोऽन्यत्र गच्छे गत्वा परिहारतपः प्रतिपद्यते । अथ समस्ता अप्याचार्य प्रभृतयोऽगीतार्थास्ततोऽन्यत्र गच्छान्तरे ते सर्वे गत्वा यः प्रायश्चित्तमापन्नः । स शुद्धं तपः प्रतिपद्यते ।
मू. (३९) बहवे साहम्मिया एगओ विहरंति, सव्वेवि ते अन्नयरं अकिञ्चट्ठाणंपडिसेवित्ता आलोएज्जा एगं तत्थ कप्पगं ठवइत्ता अवसेसा णिव्विसिज्जा अहपच्छा सेवि निव्विसेज्जा ।
वृ- अथास्य सूत्रस्य कः संबंध: ? उच्यते
[ भा. १०२६]
सरिसम्मि असरिसेसु व अवराहपएसु जइगेलन्ने ।
बहु कम्म विदोसित्ति होइ सुत्तस्स संबंधो ।
वृ- सदृशमपराधपदं नाम यथा सर्वैरपि प्राणतिपातः कृत इति, असदृशान्यपराधपदानि मूलगुणानां प्राणातिपातनिवृत्यादीनां मध्ये किमपि केनाप्यपराद्धं तत्र यदि गणः सदृशेऽपराधे यदि वा असदृशेष्वपराधेषु लगेत् तथापि यथा लोके शतमदंड्यं सहस्त्रमवध्यं तथात्रापि प्रतिपत्तिर्माऽभूतू । किन्तु बहुकैरपि कृतेऽपराधेदोषः । किमुक्तं भवति बहवोऽप्यपराधकारिणो नियमतः प्रायश्चित्तमापद्यन्ते इत्यस्यार्थस्य ख्यापनार्थमिदं सूत्रमित्येष सूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । बहवः साधर्मिका एकतो विहरन्ति ते च तथा विहरन्तः सर्वेऽप्यन्यतरत् अकृत्यस्थानं प्रतिसेव्यालोचयेयुरालोच्य च एकं तत्र कल्पस्थितं कृत्वा अवशेषाः सर्वेऽपि निर्विशन्ति परिहारतपः प्रतिपद्यन्ते इत्यर्थः, ततस्तेषां परिहारतपः समाप्त्यनन्तरं पश्चात्सकल्पस्थितो निर्विशेत् स परिहारतपः प्रतिपद्येतेति भावः । तस्यैकोऽनुपारिहारिको दीयते, एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भाष्यकृदाह
[भा. १०२७]
सव्वे वा गीयत्था मीसा व जहन्न एगो गीयत्थो । परिहारिय आलवणा इय भत्तं दे न्ताय गेण्हंता ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org