________________
व्यवहार - छेदसूत्रम् - १-२ / ३६
प्रायश्चित्तस्थानमापन्नो भवत्येकस्त्वनापन्नइति । अथवा यद्यपिनाम भिक्षाग्रहणादिनिमित्तंसमकं हिण्डेते यथाप्येक आपद्यते प्रायश्चित्तस्थानमपरो नैव । तथा चाह
[भा. १०२१]
तुल्ले व इंदियत्थे एगो सज्जइ विरज्जई एगो । अज्झत्थं तु पमाणं न इंदियत्था जिना बेंति ।।
वृ- तुल्येऽपि समानेऽपि इन्द्रियविषये रूपादौ रागहेतावेको रज्यते रागमुपगच्छति, द्वितीयो विरज्यते विषयपरिणामस्य च दारुणतां भावयन् विरक्तो भवति । तस्मात्प्रायश्चित्तापत्त्यनापत्तिविषये अध्यात्मनान्तरपरिणामः सप्रमाणं न इन्द्रियार्था इति जिना भगवन्तः सर्वज्ञा ब्रूवते । ततः समकहिण्डनेऽप्येको घटते प्रायश्चित्तमापन्नोऽपरोनेति इतश्च विषया न प्रमाणं यत आहमनसा उवेति विसए मनसाविय सान्नियत्तिए तेसु । इय विहु अज्झत्थसमो बंधो विसया न उ पमाणं ।।
[भा. १०२२]
वृ- इह विषयोपलब्धिव्यतिरेकेणापि मनसा अन्तःकरणेन विषयान् रूपादीन् उपैति अध्यवसतीति भावः, । मनसैव च तेभ्यो विषयेभ्यः सन्निवर्तते विरज्यते इत्यर्थः । इत्यपि एवमपि हु निश्चितमध्यात्मसमोऽध्यात्मानुरूपः परिणामानुसारी इत्यर्थः बन्धः कर्मबन्धः तस्मान्न विषयाः प्रमाणं तेषु सत्स्वपि केषाञ्चिद्रागद्वेषासंभवात् । तदभावेऽपि च केषांचिन्मनसा तत्संभवादिति ।
[ भा. १०२३]
३१८
एवं खलु आवन्ने तक्खण आलोयणा उगीयंमि । ठवणिज्जं ठवतित्ता वेयावडियं करे बितिओ ।।
बृ एवमुक्तेन प्रकारेण खलु निश्चितमेकस्मिन् प्रायश्चित्तस्थानमापत्रे तेन तत्क्षणमेव तत्कालमेव गीते गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि द्वावपि गीतार्थी विहरतस्ततः स्थापनीयम् प्रागुक्तस्वरूपं स्थापयित्वा यः प्रायश्चित्तस्थानमापन्नः स परिहारतपः प्रतिपद्यते । द्वितीयः कल्पस्थितो भवति स एव चानुपारिहारिक इति तस्य वैयावृत्यंकरोति ।
मू. (३७) दोसाहम्मियाएगतो विहरंति, दोवितं अन्नयरं अकिञ्च्चट्टाणं पडिसेवित्ता आलोएज्जा, एकं तत्थ कप्पागं ठावइताएगेणिव्विसेज्जा, अहपंच्छासेविनिविसेज्जा ।
वृ- द्वौ साधर्मिकावेकत एकत्र स्थाने विहरतस्तौ च द्वावप्यन्यतरदकृत्यं स्थानं प्रतिसेव्य आलोचयेतातां तत्र यदि द्वावपि गीतार्थी ततस्तत्र तयोर्द्वयोर्मध्ये एकं कल्पस्थितं स्थापयित्वा एको निर्विशेत् परिहारतपः प्रतिपद्यते यश्च कल्पस्थितः स एव चानुपरिहारिको भवत्यन्यस्याभावात्ततः स तस्य वैयावृत्यं करोति अथ परिहारतपः समाप्त्यनन्तरस कल्पस्थितः पश्चान्निर्चिशेत् परिहारतपः प्रतिपद्येत इतरस्तु कृतपरिहारतः कर्माकल्पस्थितोऽनुपारिहारिकश्च भवति । एष सूत्रार्थः एनमेव सूत्रार्थं भाष्यकृत् सविशेषमाह
[भा. १०२४] बितिए निव्विसएगो निव्विठेतेन निव्विसे इयरो, एगतरं मियगीते दो सूयसगनेयरे सोही ।
वृ- द्वितीये सूत्रे द्वयोरपि गीतार्थयोरन्यतरत् अकृत्यस्थानमापन्नयोरेको निर्विशति परिहारतपः प्रतिपद्यते, द्वितीयः कल्पस्थितोऽनुपारिहारिकश्च भवतीति वाक्यशेषस्ततस्तेन निर्विशिष्टे परिहारतपसि कृते इतरो द्वितीयो निर्विशति कृतपरिहारतपः कर्मानुतस्य कल्पस्थितो अनुपारिहारिकश्चोपजायते । यदि पुनरेकतरो अर्गातोऽगीतार्थो भवति ततः शोधिं शुद्धतपः प्रायश्चित्तदानं । अथ द्वयोरप्यगीतार्थयोः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International