SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २, मूलं : ३६, [भा. १०१६ ] प्रतिषिद्धो भवद्भिर्विहारः सोऽर्थो निरर्थकः । सूत्रेणाबाधितत्वात् । आचार्य आहमा वयसुत्तनिरत्थं न निरत्थगवाइणी जतो थेरा । कारणियं पुन सुत्तं इमे यते कारणा होंति ।। [ भा. १०१७ ] वृ मा वद मा ब्रूहि त्वं चोदक यंत् सूत्रं निरर्थकं यतः स्थविरा भगवन्तो निरर्थक वादिनो न भवन्ति तेषां श्रुतकेवलित्वात् । यद्येवमर्थतः प्रतिबिद्धो द्वयोर्विहारोऽथ च सूत्रे प्रतिपादित इति कथमत आहसूत्रं पुनः कारणेषु भवं कारणैर्निवृत्तं वा कारणिकं कारणान्यधिकृत्य प्रवृत्तमितिभावः । तानि च कारणान्यमूनि वक्ष्यमाणलक्षणानि तान्येवाह [ भा. १०१८ ] तत्र यतनामाह [भा. १०१९] समयं भिक्खग्गहणं निक्खमणपवेसणं अनुन्नवणं । एक्को कहमावन्नो एको व कहं न आवणो ।। ३१७ असिवे ओमोयरिए राया संदेसणे जयंता वा । अज्जाणगुरुनियोगा पव्वज्जा नातिवग्गदुगे [वे ] ।। " 7 वृ- अशिवं क्षुद्रदेवता कृतउपद्रवः । तस्मिन् द्वयोर्विहारः । तथा अवमौदर्यं दुर्भित्तं तस्मिन् अथवा राजा प्रद्विष्टो भवेत् ततो द्वयोर्विहारः । संदेसणत्ति आचार्यप्रेषणेन द्वौ विहरेयातां जयंता वा इति यतमाना नाम ज्ञाननिमित्तं दर्शननिमित्तंवा प्रयत्नवन्तः । इयमत्र भावना-विषमशास्त्राणि सम्प्रतिकालगृहितानि च यदि नाभ्यस्तानि क्रियन्ते ततो । विस्मृतिमुपयान्ति । गच्छे च सबालवृद्धाकुले भिक्षाचर्यादिना व्याघातस्तत आचार्यानापृच्छ्य तैर्विसृष्टौ द्वावन्यत्र गच्छेयातां । एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विहारो भावनीयः, । आचार्याणां वा एकस्मात्क्षेत्रादन्यस्मिन् क्षेत्रे नयने सङ्घाटस्य गुरुनियोगात् द्वयोर्विहारो भवेत् । यदि वा प्रव्रज्याभिमुखः कोऽपि सञ्जातस्ततस्तस्य स्थिरीकरणार्थं सङ्घाटकप्रेषणं यदि वा ज्ञातिवर्गः स्वजनवर्गःकस्यापि साधोर्वन्दापनीयो जातः ततस्तद्वन्दनार्थं च द्वौ विहारेयातमिति -D सूरिराह[भा. १०२० ] वृ- यो नाम प्रागुक्तकारणवशात् विहृतौ तौ द्वावपि समकं युगवत् भिक्षाग्रहणं कुरुतः, समकं भिक्षानिमित्तं हिण्डते इत्यर्थः । एवं सभकमेव शेषप्रयोजननिमित्तमपि निष्क्रामतो व्रजतः समकमेव च प्रविशतः गत्वा प्रत्यागच्छतः तथा समकमेवानुज्ञापनं कुरुतः । किमुक्तं भवति ? समकमेव नैषेधिक्यादिकं शय्यातरादिकमनुज्ञापयतः तत एकाकिनः सतोये प्रागुक्ता दोपास्ते प्रायोन सम्भवन्ति । पर आह-यद्येवं समकभिक्षाग्रहणादिकरणं कथमेकः प्रायश्चित्तस्थानमापन्न एको वा कथं नापन्न इति एगस्स खमणभाणस्स धोवणं व हिय इंदियत्थेहिं । एहिं कारणेहिं आवन्नो वा अणावन्ने || वृ- एकस्य क्षपणमभक्तार्थोऽभवत्; एकेन तु क्षपणं न कृतम् । तत्र यदि क्षपणकारी शक्नोति ततो द्वावपि समकं भिक्षानिमित्तं हिण्डेते । अथ क्षपणकृत् न शक्नोति तत एको भिक्षार्थं गच्छति । एकस्तूपाश्रय एव तिष्ठति । एवं द्वयोरप्येकाकित्वसंभव तथा भाणस्स धोवणंति अथ धावनार्थमुपाश्रयात् बहिर्विनिर्गत एकस्तूपाश्रयस्यैवांतस्तिष्ठति । एवमेकाकिनौ जातौ ततो यो भिक्षागतो यो वा भाजनप्रक्षालनार्थं बहिर्विनिर्गतो यो वा वसताववतिष्ठते स इन्द्रियार्थै रूपरसादिभिरिष्टानिष्टैः समापतितं राग द्वेषं वा प्रयाति रागद्वेषगमनाच्च प्रायश्चित्तस्थानमापद्यते । तत एवमनन्तरोदितैः कारणैरेकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy