________________
३१६
व्यवहार - छेदसूत्रम् - १-२ / ३६
[ भा. १०११]
गोणनिवेसणे सुय गुरुगा सेसेसु चउ लहुहुति । उड्डाहुत्तिय काउं निव वज्जेसुं भवे लहुगो ।।
वृ-यदिगृहस्थावलीवर्दाभ्यां निष्काशितवन्तो यदिवा राजा निष्काशितवान् श्वानो वा ग्लानावस्थायां वमने मुखहृदयादिकं लिहन्ति तदा एतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो गुरुका मासा । शेषेषु च सर्वेष्वपि स्थानेषु प्रत्येकं चत्वारो लघुमासा भवन्ति । अथवा राज्ञा निष्काशने चत्वारो गुरुकाः शेषेषुच सर्वेष्वपि स्थानेषु उड्डाहः संवृत्त इति चत्वारो लघुकाः यथाऽयतनया निष्काशने षन्नां जीवनिकायानां संघट्टनपरितापनाऽपद्रावणरूपां विराधनां यच्चास्थण्डिले मोचनं अग्निसंस्कारकरणं वा यावत्कुथिते यमाने द्वीन्द्रियविराधना तन्निमित्तं च प्रायश्चित्तमिति ।
[भा. १०१२]
बिंतिय मिच्छादिठी कत्तो धम्मोतवोवएसिंतु । इहलोए फलमेयं परलोए मंगुलतरागं ।।
वृ- ब्रुवते मिथ्यादृष्टयः कुतो धर्मस्तपो वा एतेषां नैव कुतश्चिदपीति भावः । तथाहि इहलोके तावत्फलमेतत् । यदित्थं निष्काशनं परलोके एतस्मादपि फलात् फलं मङ्गलतरमशुभतरमिति, तथा[ भा. १०१३ ] जइ एरिसाणिपावेंति दिक्खिया किंखु अम्ह दिखाए। पव्वज्जाभिमुहाणं पुनरावत्ति भवे दुविहा ।।
वृ- यदि दीक्षिता अपि ईदृशानि विडम्बनानि प्राप्नुवन्ति ततः किमस्माकं खु-निश्चितं दीक्षया नैव तया किञ्चित्प्रयोजनमितिभावः । एवं प्रव्रज्याभिमुखानां पुनरावृत्तिः पुनः पश्चाद्वलनं द्विविधा द्रव्यतो भावतश्च भवेत् । । गतं मरणद्वारमधुना शल्यद्वारमाह
"
[ भा. १०१४ ]
बालेन वि परद्धे सल्लो वाघातो मरणभीयस्स ।
एवं दुग्गति भीए वाघातो सल्लमोक्खट्टा ।।
वृ- एगो पुरिसो नगरं पत्थितो अन्नेहिं वारितो । मागच्छं पंथे सप्पो चिठति, सो धाविऊणं खाति, । सो भणति अहंनस्सीहामि न मे सो सप्पो अम्माहिती । ततो सो चलितो पंथे वच्चतो सप्पेण दिठी । ततो पहावितो सप्पो, सो सिग्घयरं नासेउं पवत्तो । तस्स तहा नस्संतस्य पाए कंटको लग्गो । तेन वाघाएण सप्पेण समेउं खतितो मतो य, ततो यथा तस्य व्यालेन दुष्टेन सर्पेण प्रारब्धजीवितविप्रयोगाय प्रकर्षेण खादितुमारब्धस्य मरणभीतत्वादेन शीघ्रपलायमानस्य शल्यंव्याघाततो व्याहन्यते गमनमनेनेति व्याघातो गमनव्याघातकरणमभवत् । एवं दुर्गतिभीते षष्टीसप्तभ्योरर्थं प्रत्यभेदात् दुर्गतिभीतस्य मोक्षार्थं व्रजतः शल्यमपराधलक्षणं मोक्षगमनव्याघातकारि जातम् ततः किमित्याह
[ भा. १०१५]
मरिउं ससल्लमरणं संसाराडवि महाकडिल्लंमि । सुचिरं भमंति जीवा अनोरपारंभि ओइन्ना ।।
वृ- उक्तप्रकारेण सशल्यं मरणं यथा भवति एवं मृत्वा संसाराटवी महागहने अनर्वाक्पारे अवतीर्णा जीवाः सुचिरमनन्तमपि कालं यावत् भ्रमन्ति अत्रोपसंहारमाह
[ भा. १०१६]
जम्हा एते दोसा तम्हा दोहं न कप्पति विहारो ।
एयं सुतं विफलं इह सफलं निरत्थतो अत्थो ।।
वृ- यस्माद्वयोः विहारे एते अनन्तरोदिता दोषास्तस्मान्न कल्पते द्वयोर्विहारः । अत्र पर आह- नन्वेतत् सूत्रमफलं द्वयोर्विहार स्येवासंभवात् । अथ सफलं तर्हि द्वयोर्विहारः सूत्रेणानुज्ञात इति योऽयमर्थतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org