________________
उद्देश : २, मूलं : ३६, [भा. १००८]
३१५
अथ पौरुषीमकुर्वतोरर्थनाशे चतुर्गुरु, अवर्णश्च लोके समुच्छलति । यथैते पिशाचमूर्तयः श्मशानेप्रियाः श्मशाने तिष्ठन्तीति, । अदिसत्ति आदेशा नाम प्राघूर्णकास्ते भिक्षागतयोः श्रमणयोः समागताः शय्यातरेण च शून्यां वसतिमुपलभ्य गतौ श्रमणाविति विचिन्त्य सा वसतिस्तेषां दत्ता । ततो यथा बटुकचारणभटेषु दोषा उक्तास्तथात्रापि द्रष्टव्याः । वालत्तिव्यालो नाम सर्पः स शुन्यं दृष्ट्वा वसतौ प्रविशेत् ततो यद्यागतौ तो श्रमणी निष्काशयतस्ततो हरितकायमध्येन तस्य गच्छतोऽधिकरणदोषः अन्यस्मिन् गृहे प्रविष्टस्तस्मान् मानुषाणिदृशेत्स वा तैर्मार्येत । अथैतद्दोषाभयान्ननिष्काशयतस्ततस्तेन भक्ष्यते । आत्मविराधना निकायणेत्ति शुन्यां वसतिं दृष्ट्वा तिरश्ची अनाथमानुषी वा समागत्य प्रसूते । तत्र यदि तिरची शुनी प्रसूतिका नवप्रसूता निष्काश्यते निष्काशनेन निराश्रया क्रियते तदा सद्यो जातपिल्लकमरणंशुनीभक्षणमात्मविराधना च । अथवा मानुषी प्रसूता तत इयमेतयोरेवेति प्रवचनोड्डाहो निष्काशनेऽधिकरणंलोको ब्रूयान्निरनुकम्पा अभी चेडरूपं वा म्रियते । अथवा सा प्रसूता चेडरूपं त्यक्त्वा व्रजेत्तत्र तस्योज्झने निरनुकम्पा इति गर्हानुष्टम्भे उड्डाह एते शून्यवसतिकरणे दोषाः ।। सम्प्रति ग्लानस्य एकाकिनो मोचने मरणे च दोषानाह[ भा. १००९ ]
गेलन्न सुणकरणे खद्धाइयणे गिलाण अनुकंपा । साणातिनयन दुगंच्छा तस्सद्गुयंभि कालगए ।।
वृ- ग्लानार्थमात्मार्थं वा निर्गमे ग्लानः शून्यो भवेत् । तस्य च ग्लानस्य शून्यस्य करणे पिपासा तदनुबुभुक्षा वा यद्यति पिपासितो बुभुक्षितश्च महता शब्देन व्याहरेत् । व्याहारश्रवणाच्च गृहस्था आगच्छेयुस्ते च गृहस्थाः समागता यद्याचते ग्लानः पथ्यमपथ्यं वा तत्सर्वमनुकम्पया ददाति । तत्र पथ्यस्यापथ्यस्य वा खद्धस्य प्रचुरस्य अइयणे इति अदने भक्षणे वमनं भूयात्स च न किमपि कर्तुं समर्थो ग्लानत्वादिति वमनेनमुखहृदयादिकं सर्वंखरण्टयेत् । तंच तथा वमन्तंदृष्ट्वा श्वानः समागत्य तं वम्यमानं भक्षयंति । भक्षयन्तश्च मुखं हृदयादिकं च लिहन्ति । एवं शुनामतियणेत्ति अदने भक्षणे लोके निन्दा जुगुप्सा समुपजायते । यथा-धिगेतेषां धर्मरूपो वा यदित्थमिहलोकेऽपि फलमनुभवन्ति ते इति गतं ग्लानद्वारम् । । सम्प्रतिमरणद्वारभाह-तस्सठेत्यादि तस्य ग्लानस्यार्थं यद्वैद्यौषधादि समानयनप्रयोजनाय ग्रामान्तरादौ गते यदि स ग्लानः कालगतो भवेत् तदा अमी दोषास्ताने वाह
[ भा. १०१०]
गिहिगोणमल्लाराउल निवेयणापान कड्डणुड्डाहे
छक्कायाणविराधन ज्झामिय मुक्के यदा- वन्ने ।
वृ- यदिस ग्लानोमृतः सद्गृहस्थै निष्काश्येत यदि वा बलीवदैर्निष्काश्यते अथवा मल्लैः निष्काश्यते यदि वा केनापि राजकुले निवेदना क्रियते यथा एको व्रती अनाथो मृत इति ततो राज्ञा स निष्काश्येत । यदि वा केचित् पाणानां चाण्डालानां मूल्यं दत्वा तै निष्काशयेयुरित्थं तस्य ग्लानस्य कर्षणे निष्काशने प्रवचनस्य उड्डाहो मालिन्यं तथा गृहस्थादयोऽयतनया गच्छन्ति ततस्तै नीयमानेषन्नां जीवनिकायानां विराधना संघट्टन परितापन अपद्रावणरूपा तथा तथायत्रतस्याग्निसंस्कारः कर्तव्यः । तत्र स्थण्डिलमस्थण्डिलं वेति [न] परिभावयन्ति । ततस्तस्मिन्नस्थण्डिले ध्यामिते [दग्धे ] ऽग्निना षट्जीवनीकायविराधना । अथ नाग्निसंस्कारं कुर्वन्ति किन्त्वेवमेव मुञ्चति तथाप्य स्थण्डिले मुक्ते षट्जीवनिकायविराधना । अन्यच्च यदि तस्य ग्लानस्य शरीरं क्वचित् प्रदेशेषु व्यापन्नं कुथितं भवेत् ततस्तस्मिन् व्यापन्ने अयतनया नीयमाने द्वीन्द्रियविराधना अत्रैव च प्रायश्चित्तविधिमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org