________________
३१४
व्यवहार - छेदसूत्रम्-१-२/३६ गुरुगा इति अन्ये च बहवो दोषास्तथा हि-तौ साधूसर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गतौ शय्यातरेण च बहिरागतेन शून्यावसतिर्दृष्टा, ततः स पृच्छति क्व गतौ साधू इति गृहमानुषाणि भणन्ति । नजानीम नूनं गतौ भविष्यतः, एतत् श्रुत्वा यदि स प्रत्यनीकं करोति यथा यदि गतौ, ततो गताविति तदा तयोः प्रायश्चित्तं चतुर्लघु, तथाऽप्रीतिं करोति यथा अकृतज्ञास्ते निस्त्रेहास्ततोऽ नापृच्छ्यागताः, । अथवा निर्दाक्षिण्यास्ते एतमप्युपचारं न जानन्ति । यथा आपृच्छ्य गन्तव्यमिति तदा चतुर्गुरुकास्तथा सोऽप्रीतिकोत्पत्तिवशात्तयोरन्येषां वा साधूनां तद् द्रव्यान्यद्रव्यविच्छेदं कुर्यात् । ततो भूतैर्भाजनैरागतयोस्तयोः शय्यातरो न स्थानं दद्यात् कोपावेशात् यदि दिवा । निष्काशयति ततश्चतुर्लघु, तैश्च भृतैर्भाजनैरन्यां वसति याचमानयोर्या आगाढादिपरितापनात् एतन्निष्पन्नं चतुर्लघु लोके च गर्होपजायते कुत्सितमाभ्यां किमप्याचरितमन्यथा कथमकाण्ड एवाकृतभोजनौ निष्काशितौ इति । एवं चान्यत्रापि तौ वसतिं न लभतः [लभेते] । ततो वसतिमलभमानौ तावदन्यत्र गच्छतः ततो मासकल्पभेदस्तथा च सतिया तत्र विराधना तन्निष्पन्नमपितयोः प्रायश्चित्तमपिचान्ये साधवो विहारादिनिर्गतास्तत्रागता अन्या च वसति स्तत्र न विद्यते । स च शय्यातरः तत्कृता प्रीतिवशतस्तेषामपि वसतिं न ददाति, ततो यत्ते स्वापदस्तेनादिभिः प्राप्नुवन्ति तं निष्पन्नमपि तयोः प्रायश्चित्तं एते तावद्दोषा भिक्षामटित्वा तत्क्षणमागतयोरुक्ता, यदि पुनर्बहिर्भुक्त्वा रात्रावागतौ वसति न लभेते । तदा चतुर्लघु.
- वसति विशेषतराश्चगर्हादयो दोषाः, विनाशः स्वापदादिभ्यः, अथवा सम्यग् दृष्टिभूतः सन् पश्चादनापृच्छ्य तौ गतावित्यप्रीतिकोत्पत्तिवशतो मिथ्यात्वं यावत् बड्डुयत्ति शून्यां वसतिं दृष्ट्रा बटुकैः शय्यातरो याचितो यथा वयमत्रतिष्ठामः शय्यातरः प्राह-श्रमणो तिष्ठतस्तैरुक्तं गतौ तो श्रमणौ शय्यातरी ब्रूते तिष्ठत यदिगतौ श्रमण, ते स्थिताः श्रमणावागतौ प्रवेष्टुं प्रवृत्तौ बटुकैर्निरुद्धी, I ततोऽसंखडमभवत् बटुका ब्रुवते वसतिरियमस्माकं स्वामिना दत्ता । इतरावपि द्रुतो अस्माकमपि स्वामिना दत्ता । एवं कलहायमानौ साधू शय्यातरसमीपं गतौ स वदति यूयमनापृच्छ्या शून्यां वसतिं कृत्वा गता मया ज्ञातं
यूयं गता न शून्याकृता वसतिर्दृश्यते । ततो मया बटुकानां प्रदत्ता तस्मात्परस्परं सांमत्येनैकत्र तिष्ठत, न पुनरहंमात्मानमलीकं करोमि । तत्र यदि परस्परं सांमत्येन तिष्ठन्ति ततः पठतां प्रतिलेखनां च कुर्वतां संयतभाषाश्च श्रुत्वा ताभिरुपहासं कुर्वन्ति, [क्रियते] । ततः कलहभावतोऽधिकरणदोषः । अथवा शय्यातरः संयतानां भद्रक भद्रक इतितान् बटुकान्निष्काशयेत्ततः संयतप्रयोगवशतोऽनेन दुष्टेन वयं निष्काशिता इति शय्यातरस्य संयतानां च विषयस्तेन प्रयोगतोऽग्निप्रक्षेपादिना वायमुपद्रवं कुर्वन्ति । तन्निष्पन्नप्रायश्चित्तं तो श्रमणौ प्राप्नुतः । चारणेति एवं चारणेऽपि दोषा वक्तव्याः । नवरमधिकतरा. यतस्ते संयतान् प्रपञ्च्य याचित्वा वा यत्तद्गृह्णन्ति । ततस्तैः सह एकत्र सर्वथा न वस्तव्यमेते एव दोषा भटेऽपि यतस्तेपि बटुका इव प्रद्विष्टाः सन्तः शय्यातरस्य संयतानां वा स्तेनप्रयोगतोऽग्निप्रक्षेपादिनावाप्रभूतमुपद्रवं कुर्वन्ति ।। मरणंतिरिक्खमनुयाणमिति शून्यां वसतिमभिसमीक्ष्य गवादिस्तिर्यङ अनाथमनुष्यो वा प्रविश्य म्रियते तं यदि ग्रहस्थैरसंयतेः परिष्ठापयन्ति ततः षट् जीवनिकाय विराधना यदिस्वयं त्यजन्ति ततः प्रवचनस्योड्डाहः कोऽप्यवमाशङ्कयेत एतैरेवायं मारितो लोकेऽपिस्वयं तत्त्यजने महती गर्हा अशुचय एते इति । अथैतद्दोषभयान्न स्वयं त्यजन्तिनापि गृहस्थैस्त्याजयन्ति ततो रुधिरगन्धेन तयोः श्रमणयोर्नाशाशस्युपजायन्ते । अथास्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुरुतस्ततो मासलघु अर्थ पौरुषीं न कुरुतो मासगुरु, सूत्र पौरुषीमकुर्वतोः सूत्रं चेन्नश्यति । ततश्चतुर्लघु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org