________________
३१२
व्यवहार - छेदसूत्रम्-१-२/३६ ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षा वा श्रावकधर्मोचितां उभयोरपि शिक्षयोस्तस्याकुशलत्वात्
गतंशैक्षद्वारमधुना विहारद्वारं मिथ्यात्वद्वारंचाह[भा.९९९] दसुदेसे पच्चंते, वइयादि विहारपामबहुलेय ।
अप्पाणंच परंवान मुणति मिच्छत्तसंकंतं ।। वृ-सोऽज्ञतया दस्युदेशे चौरदेशोविहारं करोति यदि वा प्रत्यंतबहुले म्लेच्छाकुले अथवा लुब्धतया व्रजिकादौ आदिशब्दात् स्वजातिकादिकुलपरिग्रहः यदि वा प्राणबहुले जीवसंसक्ते देशे एतेषु यथायोगमात्मविराधनासंयमविराधनाचभूयसीति,गतंविहारद्वारम् अधुना मिथ्यात्वद्वारमाह-अप्पाणं चेत्यादिस वराको अजानन् आत्मानमपिकुप्ररुपणादिभि मिथ्यात्वशङ्कासंक्रान्तं न जानाति, नापिपरं ततः आत्मनः परस्य च मिथ्यात्वंप्रवर्तयतीत्युभयेषामपिसंसारप्रवर्धकः ।
गतंमिथ्यात्वद्वारमधुना एषणाद्वारमाह[भा.१०००] आहार उवहिसेज्जा, नुमग उप्पायणेसनकडिल्ले ।
लगइ अवियाणतो, दोसे सेएसुसव्वेसु ।। वृ- आहारो भक्तपानादिरुपः उपधिः कल्पादि लक्षणः शय्या वसतिः एतासांग्रहणे इति गम्यते । किं विशिष्टे इत्याह-उद्गमेन उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिरुत्पादनया उत्पादनादोषैर्धात्र्यादिभिः षोडशभिरेषणायागवेषणादिदोषैः शङ्कितम्रक्षितप्रभृतिभिः संयोजनाप्रमाणाङ्गारधुमैः काकशृगालादिभक्षितैश्च । कडिल्ले इतिमहागद्दने सति सोऽविजानन् एतेष्वनन्तरोदितेषु दोषेषु सर्वेषु लगति द्वारगाथायामेषणादाविति य आदिशब्दः ससमस्तोद्भमादिदोषपरिग्रहार्थः । तथा विसमे इति विषमेचपर्वतजलादौ या यतनातांसनजानाति अजानंश्चात्मविराधनांसंयमविराधनांचाप्नोति।
सम्प्रतिशोधिद्वारमाह[भा.१००१] मूलगुणे उत्तरगुणेआवन्नस्सयन याणईसोहिं ।
पडिसिद्धेत्तिन कुणति, गिलाणमादीन तेगिच्छं ।। वृ- मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशी तस्मिन्नपराधे न जानाति, । अजानानश्चाप्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महदाशातनाभाक्, गतंशोधिद्वारमधुना ग्लानादि द्वारमाह-पडिसिद्धेत्यादि प्रतिषिद्धा खलु चिकित्सा षट् जीवनिकायविराधनापत्तेरिति वचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनामादि शब्द: स्वगतानेकभेदसूचक आगाढाऽनागाढसहासहबालतरुणग्लानादीनां चिकित्सां न करोति, । न च तद्विषयां यतनां जानाति, ततश्चिकित्साया यतनायाश्च अकरणे भूयांसो दोषास्ते च प्रागेव प्रथमोद्देशकेऽभिहिताः । सम्प्रति तेना दुविहा वाइति व्याख्यानयति[भा.१००२] अप्पसुयत्तिय काउंवुगाहेउंहरंतिखुड्डादी।
तेनासपक्खइयरे,सलिंगि गिहि अन्नहा तिविहा ।। वृ-स्तंना द्विविधाः सपक्षाः परपक्षाश्च, । ततः सपक्षाः द्विविधाः गीतार्थाः पार्श्वस्थादयश्च, तत्र गीतार्था इदं चिन्तयन्ति । अमी अल्पश्रुता अल्पश्रुतत्वाच्चागीतार्था न चागीतार्थानां क्षेत्रमस्ति । तत एवं चिन्तयित्वा तेषां सचित्तादिगीतार्था अपहरन्ति पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्तियधा दुष्कराचर्यामीषांनचदुष्करचर्यायाः सम्प्रतिदेशकालौ तस्मादत्रागच्छतेति । एवंव्युद्ग्राह्य क्षुल्लकादीन
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org