________________
३१०
व्यवहार - छेदसूत्रम्-१-२/३६ __ वृ-नामविहारः स्थापनाविहारोद्रव्ये द्रव्यनिमित्तं द्रव्यभूतो विहारो द्रव्यविहारः भावे भावविहारः । एवमेषविहारश्चतुर्विदोभवति,इहचनोआगमतोभावविहारेनगीतार्थेनाधिकारोनशेषैस्तस्तानधिकृत्य व्युत्पत्तिमाह-यस्माद्विविधरनेकैः प्रकारैः रजः कर्म हरति तस्माद्विहार इत्युच्यते । विविधं ह्रियते रजः कर्मानेनेति विहारोऽकर्तरीति घञिति व्युत्पत्तेः । सम्प्रति नामादिभेदा व्याख्येयास्तत्र यस्य विहार इति नाम स नामविहारः स्थापनाविहारश्चित्तकर्मण्यन्यत्र वा आलिख्यमानः स्थापनाविहारः । द्रव्यविहारो द्विधाआगमतो नोआगमतश्च । तत्रागमतो विहारशब्दार्थज्ञाता तत्रचानुपयुक्तः ।नोआगमतस्त्रिधाज्ञशरीरभव्यशरीरतद्वयतिरिक्तभेदात् । तत्रज्ञशरीरभव्यशरीरे प्राग्वत् । तद्वयतिरिक्तमाह[भा.९९२] आहारादीणठा जोउ विहारो अगीयपासत्थे ।
जोयावि अनुवउत्तो, विहरतिदव्वविहारोउ ।। वृ-यो नाम आहारादीनामाहारोपधिप्रभृतीनामयोत्पादनाय अगीतानामगीतार्थानां पार्श्वस्थानां चगाथायां समाहारो द्वन्द्वः । षष्ठीसप्तम्योरर्थं प्रत्यभेदाच्च सप्तम्या निर्देशः । तथायोऽप्यनुपयुक्तः सन् विहरतिएषसर्वोऽपिद्रव्येविहारःआद्योद्रव्यनिमित्तत्वात्द्रव्यविहारः द्वितीयोऽनुपयुक्तत्वादितिउक्तो द्रव्यविहारः ।भावविहारोद्विधा-आगमतोनोआगमतश्च । तत्रागमतोविहारशब्दार्थज्ञातातत्रचोपयुक्तः नो आगमतोभावविहारो द्विधा-गीतार्थो निश्रितश्च । तथा चाह - [भा.९९३] गीयत्थो य विहारो बीय गीयत्थनिस्सितो होति ।
एत्तो तत्तिय विहारो नाणुन्नातो जिनवरेहिं ।। वृ-विहारः प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मको द्वितीयोगीतार्थनिश्रितः गीतार्थस्य निश्रा संश्रयणंगीतार्थनिश्रासासञ्जातायस्येतिपाठान्तरंगीतार्थमिश्रितइतितत्रगीतार्थसंयुक्तइतिव्याख्येयं इति । आभ्यां गीतार्थगीतार्थ निश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो जिनवरेन्द्रैः ।। तत्र गीतार्थ गीतार्थनिश्रितंच विहारमाह[भा.९९४] जिनकप्पितो उगीयत्थो, परिहारविसुद्धितो विगीयत्थो ।
गीयत्थे इड्डीदुगंसेसा गीयत्थनिस्साए ।। वृ- गीतार्था द्विविधास्तद्यथा-गच्छगता गच्छनिर्गताश्च । तत्र गच्छनिर्गता इमे जिनकल्पिको गीतार्थः परिहार विशुद्धिकोऽपि गीतार्थः । अपिशब्दाद्यथालन्दकल्पिकप्रतिमापन्नोऽपि च गीतार्थः, अमीषां विहारोगीतार्थः, गच्छवासेगीतार्थेगीतार्थविषये ऋद्धिद्विकंतद्यथा-आचार्य उपाध्यायश्च, । अथवा आचार्यः शेष चतुष्टयमुपाध्यायप्रवृत्तिस्थविरगणावच्छेदिरुपमेतच्च द्विकं स्थानानि नियुक्तमिति । व्यवह्रियते स्वस्वव्यापारे तेषां नियुक्तत्वात् शेषाः सर्वे अनियुक्ताः ते यदि गीतार्था यदिवा अगीतार्थाः । सर्वे गीतार्थनिश्रया विहर्तव्यम् । अत्रपर आह[भा.९९५] चोएइअगीयत्थे, किं कारण मोनिसिज्झइविहारो ।
सुणदिटतंचोयग, सिद्धिकरं निह्नवे एसि ।। वृ-चोदयतिप्रश्नं करोति अगीतार्थे अगीतार्थस्य किंकारणंकिंनिमित्तंमो इतिपादपूरणे निषिष्यते विहारः सूरिराह-हेचोदक! त्रयाणामप्येतेषांगीतार्थागीतार्थनिश्रितागीतार्थानांसिद्धिकरं दृष्टान्तंश्रृणु ।
तमेवाह[भा.९९६] तिविहे संगिल्लंमिज़ानंतो निस्सिए अजानते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org