________________
उद्देशक : २, मूलं : ३६, [भा. ९८९]
३०९
न अभिग्रहतः समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा, अभिग्रहतोनदर्शनतः समानाभिग्रही विचित्रदर्शनतः श्रावकादि, दर्शनतोऽपि अभिग्रहतोऽपि समानदर्शनाभिग्रही श्रावकादि; नदर्शनतो नाप्यभिग्रहतः एषः शून्यः । तथा दर्शनतो न भावनातः समानदर्शनो विचित्रभावनाकः श्रावकादिः, भावनातोनदर्शनतः समानभावनाविचित्रदर्शनः श्रावकादिः, दर्शनतोऽपि भावनातोऽपि समानदर्शनभावनाकः श्रावकादि, न दर्शनतो नापि भावनातः एष शून्यः ।।
तदेवमुक्ता दर्शनेनापि सह ज्ञानादिषु भङ्गाः । अधुना दर्शनपदमपहायज्ञानपदमभिगृह्यते तेन सह चारित्रादिषु प्रदर्श्यन्ते ज्ञानतः साधर्मिको न चारित्रतः समानज्ञानो विचित्रचारित्रसाधुः; यदिवा श्रावकः, चारित्रतः साधर्मिको न ज्ञानतः, समानचारित्री एकः केवली एक छद्मस्थः, ज्ञानतोऽपि चारित्रतोऽपि समानः ज्ञानचारित्री साधुः, न ज्ञानतोऽपि न चारित्रतोऽपिशून्यः । तथा ज्ञानतो नाभिग्रहतः समानज्ञानो विचित्राभिग्रहः श्रावकादिः, अभिग्रहतो न ज्ञानतः समानाभिग्रहतः एष शून्यः तथा ज्ञानतो नाभिग्रहतः समानज्ञानो विचित्राभिग्रहः श्रावकादिः, अभिग्रहतो न ज्ञानतः समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकरः प्रत्येकबुद्धो वा, ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः, न ज्ञानतोऽप्यभिग्रहतः एष शून्यः तथा ज्ञानतो नभावनातः समानज्ञानो विचित्रभावनाकः श्रावकादिः, । भावनातो न ज्ञानतः समानभावनो विचित्रज्ञानी श्रावकादिः, ज्ञानतोपि भावनातोऽपि समानज्ञानभावनाकः श्रावकादिर्न ज्ञानतो नापि भावनातः एष शून्यः । उक्ता ज्ञानेन सह चारित्रादिषु भङ्गाः । । सम्प्रति ज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रह भावनयोर्भङ्गा उच्यन्ते चरणतः साधर्मिको नाभिग्रहतः समानचरणो विचित्राभिग्रहीसाधुः, अभिग्रहतः साधर्मिको न चरणतः श्रावकादिः, चरणतोऽपि अभिग्रहतोऽपि साधुः, न चरणतो नाप्यभिग्रहतः शून्यः । तथा चरणतो न भावनातः विचित्रभावनाकः साधुः, भावनातो न चरणतः श्रावकः समानभावनाकः साधुर्वा विसदृशचरणः, चरणतोऽपिभावनातोऽपि समानचरणभावनाकः साधुः न चरणतोनापिभावनातः शून्य एषः सम्प्रत्यभिग्रहेण सह भावनाया भङ्गाः- अभिगृहतः साधर्मिको न भावनातः, समानाभिग्रही विचित्र भावनाकः श्रावकादि, भावनातः साधर्मिको नाभिग्रहतः विचित्राभिग्रह श्रावकादिः, अभिग्रहतोऽपि भावनातोऽपि समानाभिग्रह भावनाकः श्रावकादिः, नाभिग्रहतो नापि भावनातः एष भङ्ग शून्यः । तदेवमुक्ता भङ्गाः । । साम्प्रतममीषां भङ्गानां विषयविशेषप्रतिपादनार्थमाह
[ भा. ९९० ]
पत्तेयबुद्धनिण्हग उवासए केवली य आसज्ज ।
खइयाइए यभावे पडुच्च भंगा उजीएज्जा ।।
वृ- प्रत्येकबुद्धान् निह्नवान् उपासकान् केवलिनश्चाश्रित्य तथा क्षायिकादींश्च भावान् प्रतीत्य आश्रित्य भङ्गकान् अनन्तरोदितान् योजयेत् । तद्यथा- न प्रवचनतः साधर्मिको लिङ्गतः एष भङ्गः प्रत्येकबुद्धान् केवलिनश्च जिनानाश्रित्य योजनीयः । लिङ्गतो न प्रवचनत इत्ययं न्हिवान्, प्रवचनतो न लिङ्गत इत्येष श्रावकान् प्रवचनतो न दर्शनत इत्यादयस्तु क्षायोपशमिकदर्शनज्ञानचारित्रादीनाश्रित्य योजयितव्यास्ते च तथैव यथास्थानं योजिता एवेति सम्प्रति ये विहारे नामादयोऽपि भेदा उक्तास्तान् विपरीषुः पुनः कथयति[भा. ९९१]
Jain Education International
नामंठवणा दविए भावेय चउव्विहो विहारो होइ । विविह पगारेहिं रथं हरइ जम्हा विहारोउ ।।.
For Private & Personal Use Only
www.jainelibrary.org