SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९६ व्यवहार - छेदसूत्रम् - १-१ / ३५ [ भा. ९३४ ] पडिवेसिय रायाणो सीउमिणं परिभवेनहसिहिंति । थीनिज्जितो पमत्तो वाविरज्जुंपि पेलेज्जा ।। वृ- प्रातिवेशिका नाम सीमान्तरवर्तिनः प्रत्यर्थिनो राजान इदं श्रुत्वा परिभवेन परिभवोत्पादनबुद्ध्या हसिष्यन्ति । न केवलं हसिष्यन्ति किन्तु स्त्रीनिर्जितः प्रमत्त एष इति ज्ञात्वा राज्यमपि प्रेरयिष्यन्ति गृह्णीयुरित्यर्थः । । [भा. ९३५ ] धित्तेसिं गामनगरान जेसिं इत्थी पनायगा । तेया वि धिक्कया पुरिसा जे इत्थीण वसंगया ।। वृ- धिग् निन्दायां, तेषां ग्रामनगराणां येषां स्त्री प्रणायिका प्रकर्षेण स्वतन्त्रतया नायिका । अत्र धिग योगे द्वितीया प्राप्तावपिषष्ठीप्राकृतत्वात् । तथा तेऽपिपुरुषा धिक्कृता धिक्कारं प्राप्तवन्तोये स्त्रीणां वशमायत्ततां गताः । तथा [भा. ९३६ ] 'इत्थीतो बलवंजत्थ गामेसु नगरेसु वा । सो गामं नगरं वापि, खिप्पमेव विनास्सरं ।।' वृ- यत्र ग्रामेषु नगरेषु वा स्त्रियो बलवत्सः स ग्रामो नगरं वा क्षिप्रमेव विनश्यति । बहुवचनेनापक्रम्योपसंहारी जाती बहुवचनमेकवचनं च भवतीति ज्ञापनार्थः । एवमुक्ते राजा पुरोधा वा एवं मनसि सम्प्रधारयेत् यथा 'नास्माकं ग्रामेषु नगरेषु वा स्त्रियो बलवत्य' इति । तत आह [ भा. ९३७] इत्थीतो बलवंतत्थ गामेसुय नगरेसुय, अनस्सा जत्थहेसंति, अपव्वंमिय मुंडणं ।। वृ- तत्र तेषु ग्रामेषु नगरेषु वा स्त्रियो वलवत्यो यत्र अनश्वा हेषंति, अपर्वणिच शिरोमुंडनं, एतेन राज्ञो हय हेषितं प्रकटीकृतं पुरोधसश्चशिरो मुंडनं, अथ कथमेतदमात्येन ज्ञातमित्यत आह सूयग तहानु सूयग पडिसूयग सव्वसूयगा चैव । [ भा. ९३८ ] पुरिसा कयवित्तीया वसंति सामंतरज्जेसु ।। वृ- तस्यामात्यस्य पुरुषाः कृतवृत्तयः कृताजीविका श्चतसृषु दिक्षु चारज्ञानार्थं सामन्तराज्येषु प्रातिवेशकराज्येषु वसन्ति । तद्यथा-सूचका अनुसूचकाः प्रतिसूचकाः प्रतिसूचकाः सर्वसूचकाश्च । तत्र सूचकाः सामन्तराज्येषु गत्वा अन्तःपुरपालकैः सह मैत्रीं कृत्वा यत्तत्र रहस्यं तत्सर्वं जानन्ति । अनुसूचका नगराभ्यन्तरे चारमुपलभन्ते, प्रति सूचकानगरद्वारसमीपे अल्पव्यापारा अवतिष्ठंति, सर्वसूचकाःस्वनगरं पुनरागच्छन्ति पुनर्यान्तितत्र ये सूचकास्तैः श्रुतंदृष्टं वा सर्वमनुसूचकेभ्यः कथयन्ति अनुसूचकाः सूचक कथितं स्वयमुपलब्धं च प्रतिसूचकेभ्यः प्रतिसूचकाः अनुसूचककथितं स्वयमुपलब्धं च सर्वसूचकेभ्यः । सर्वसूचका अमात्याय कथयन्ति । यथा तस्यामात्यस्य चतुर्विधाः पुरुषाः सामन्तराज्येषु वसन्ति तथा महेला अपि । तथा चाह [भा. ९३९] सूयग तहानुसूयग पडिसूयग सव्वसूयगा चेव । महिलाकयवित्तीया वसंति सामंतरज्जेसु ।। वृ- अस्य व्याख्या प्राग्वत् । यथा च पुरुषाः स्त्रियश्च सामन्तराज्येषु समस्तेषु वसन्ति तथा सामन्तनगरेष्वपि राजधानीरुपेषु । तथा चाह [ भा. ९४०] सूयग तहानुसूयग पडिसूयग सव्वसूयगा चेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy