________________
२९३
उद्देशक : १, मूलं:३२, [भा. ९१७] व्याख्यानान्तरमाह[भा.९१८] अहवा पनगादीयंमासादीवाविजाव छम्मासा ।
एवं तवारिहंखलुच्छेदादिचउण्हवेगयरं ।। वृ-अथवेति अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चक प्रभृति प्रायश्चित्त स्थानमकृत्यं स्थानं, यदि वा मासादि तच्च तावत् यावत् षण्मासाः । एतत्खलु अकृत्यस्थानं तपोऽर्ह तपोरूपप्रायश्चित्ता/यदिवाच्छेदादीनांचतुर्णांप्रायश्चित्तस्थानमकृत्यस्थानंतदेवमकृत्यस्थानं व्याख्याय सम्प्रतियथास्वकीयाचायोपाध्यायादीनामदर्शनंसंभवति तथा प्रतिपादयति[भा.९१९] . आउय वाघायंवा दुल्लहगीयं च पत्तकालंतु ।
अपरक्कममासज्जवसुत्तमिणंतूदिसा जाव ।। वृ-स्वकीयानामाचार्योपाध्यायानामायुषोव्याघातोऽभवत्जीवितस्य बहुधातसंकुलत्वात् । यदि वा तस्यैवालोचकस्यायुर्यावदाचार्योपाध्यायादिसमीपे गच्छति तावत् न प्रभवति स्तोकावशेषत्वात्, तत आयुषो व्याघातं वा समाश्रित्य तथा भविष्यति स कालो यत्र दुर्लभो गीतार्थः आलोचनार्हस्तत एष्यन्तं कालमधिकृत्य दुर्लभं गीतार्थं गीतार्थं वाश्रित्य तथा जङ्घाबल-परिहान्यारोगातंकेण वा जातोऽपराक्रम आलोचकस्ततस्तंवा प्रतीत्यसूत्रमिदमधिकृतंप्रवृत्तंयावदिशादिसूत्रम् । अत्रपरआहननु पूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि यथा एकाकिविहारे दोषाः, तदनन्तरं पार्श्वस्थादि विहारोऽपिप्रतिषिद्धः । ततो नियमाद्गच्छेवस्तव्यमितिनियमितं । एवंच नियमितेकथमेकाकीजातो येनोच्यतेनैवात्मनमाचार्योपाध्यायन् पश्येत्तत्रैवगत्वा तेषामन्तिके आलोचयेदित्यत्रसूरिराह[भा.९२०] सुत्तमिणंकारणियं आयरियादीणजत्थगच्छंमि ।
पंचण्हंही असती एगोचतहिं नवसियव्यं ।। वृ-सूत्रमिदमधिकृतंकारणिकं,कारणेभवंकारणिकंकारणेसत्येकाकिविहारविषयमित्यर्थः । इयमत्र भावना-बहूनि खल्वशिवादीनि एकाकित्वकारणानि ततः कारणवशतो यो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोपः अशिवादीनि तुकारणानि मुक्त्वा आचार्यादिविरहितस्य न वर्तते वस्तुं । तथा चाह-यत्र गच्छे पञ्चानामा!यापाध्यायगणावच्छेदि प्रवर्तिस्थविरूपाणामसदभावो यदि वा यत्र पञ्चानामन्यतमोऽप्येको न विद्यते तत्रन वस्तव्यमनेकदोषसम्भवात् । तानेव दोषानाह[भा.९२१] एवं असुभगिलाणे परिणकुलकजमादिवग्गोउ ।
. अनस्सतिससल्लस्साजीवियघातेचरणघातो ।। वृ- एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृतकस्थापनादौ अपरोग्लानप्रयोजनेष्वन्यः परिज्ञायां कृतभक्तप्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति, अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन सशल्यस्य सतो जीवितघाते जीवितनाशे चरणव्याघातश्चरणगात्र शश्चरण,शेच शुभगतिविनाशः अत्रपर आह[भा.९२२] एवंहोइ विरोहो, आलोयणपरिणतोय सुद्धोउ ।
. एगंतेन पमाणंपरिणामो विन खलुअम्हं ।। वृ-नन्वेवं सति परहस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते सशल्यस्य सतो जीवितनाशे चरणभ्रंशः प्राक् चैव मुक्तमदत्तालोचनेऽप्यालोचनापरिणामपरिणतः शुद्धइति ततो भवति परस्पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org