SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९२ व्यवहार - छेदसूत्रम्-१- १/३५ पुनः करणतामाह । अकरणतया पुनरभ्युत्तिष्ठेत् । पुनरकरणतया अभ्युत्थानेऽपि विशोधिप्रायश्चित्तप्रतिपत्या भवति । तत आह-यथार्ह यथायोग्यं तपःकर्म तपोग्रहणमुपलक्षणं च्छेदादिकं प्रायश्चित्तं प्रतिपद्यते । यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्सु अन्येषामन्तिके आलोचयति । ततः प्रायश्चित्तं तस्य चतुर्गुरु यदि पुनरात्मन आचायोपाध्यायान्न पश्येत् । अभावादूरव्यवधानतो वा ततो यत्रैव सांभोगिकं साधर्मिकं विशिष्टसामाचारीनिष्पन्नं बहु श्रुतं छेदग्रन्थादिकुशलं उद्भामकमुद्यतविहारिणं पाठान्तरंबह्वागममर्थतःप्रभूतागमं पश्येत्तस्यान्तिकेआलोचयेदत्रापियावत्करणात्पडिक्कमेजा इत्यादि पदकदम्बकपरिग्रहः । यदि पुनः तस्य भावे अन्यस्य सकासे आलोचयति तदा चतुर्लघु एवं सर्वत्रोत्क्रमकरणे वक्तव्यम् । सांभोगिकसाधर्मिकबहुश्रुताभावे असांभोगिक साधर्मिक बहुश्रुत संविग्नस्यान्तिके तस्याप्यभावे सारूपिकस्यवहुश्रुतस्यान्तिके समान रूपं सरूपं तत्र भवः सारूपिको वक्ष्यमाणस्वरूपः । तस्याप्यभावे यत्रैव सम्यग् भावितानि जिनवचनवासितान्तः करणानि दैवतानि पश्यति । तत्र गत्वा तेषामन्तिके आलोचयेत् । तेषामप्य भावे बहिग्रामस्य ग्रसति बुद्धयादीन गुणान यदिवागम्यःशास्त्रप्रसिद्धानामष्टादशानांकराणामितिग्रामस्तस्ययावत्करणात् । “नगरस्यवा निगमस्स वा रायहानाए वा खंडस्स वा कप्पडस्यवा पट्टणस्स वा दोणमुहस्स वा आसमस्स वा संवाहस्स वा सन्निवेसस्स वा इति परिग्रहः" ।। तत्र न विद्यते करो यस्मिन् तत् नकरं तस्य, निगमः प्रभूतर वणिग्वर्गावासकस्तस्यवा राजाधिष्ठानं नगरं राजधान तस्य वा पांशुप्राकार निबद्धं खेटं तस्य वा क्षुल्लकप्रकारवेष्टितं कर्बट तस्य वा, अर्धतृतीयगव्यूतान्तामान्तरहितं मडम्बं तस्य वा, पत्तनं जलस्थलनिर्गमप्रवेशं यथाभृगुकच्छं ।उक्तं च “पत्तनंशकटैगम्यं,घौटकैéइबड़ए च । __ नौभिरेवयद्गम्यं, पट्टनं तत्प्रचक्षते ।।" तस्य वा द्रोणमुखं जलनिर्गमप्रवेशं । यथा-'कोङ्कणदेशेस्थानकनामकं पुरं तस्य च, आकरो हिरण्याकरादिः आश्रमस्तापसावसथोपलक्षित आश्रयविशेषः तस्य वा संबाधो यात्रासमागतप्रभूतजननिवेशस्तस्य वा, संनिवेशस्तथाविधप्राकृतलोकनिवासस्तस्य वा प्राचीनाभिमुखो वा उदीचीनाभिमुखो वा पूर्व दिगभिमुख उत्तरदिगभिमुखो वा इत्यर्थः, । इह चिरन्तनव्याकरणेषु दिश्यपिस्त्रियामभिधेयायामीनप्रत्ययः स्वार्थे भवति, तत एवं निर्देशः पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेव दिशयोरर्हत्वात् करतलाभ्यां प्रकर्पण गृहीतः करतलप्रगृहीतः तं तथा शिरस्यावर्तो यस्य स शिरस्यावर्त्तः कण्ठेकालवद लुक्समासःतंमस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणरीत्या वदेत्। तामेव रीतिंदर्शयति-एतावन्तो मे ममापराधा एतावत् कृत्वा एवावतो वारान् यावदहमपराद्ध एवमर्हतां तीर्थकृतां कथं भूतानामित्याह-सिद्धानामपगतमलकलङ्कानामन्ति के आलोचयेदित्यादि पूर्ववदेष सूत्रसंक्षेपार्थः । अधुना नियुक्तिभाष्यविस्तरः । तत्रयदुक्तमकृत्यंस्थानंसेवित्वेतितद्विषयमुपदर्शयति[भा.९१७] अन्नयरंतुअकिञ्चमूलगुणेचेव उत्तरगुणेय । ___मूलंचसव्वदेसं एमेव यउत्तरगुणेसु ।।। वृ-अन्यतरदकृत्यंपुनः सूत्रोक्तं मूलगुणेमूलगुणविषयमुत्तरगुणेवा उत्तरगुणविषयंवा । तत्रमूलं मूलगुणविषयं सर्वं देशं वा । सर्वथा मूलगुणस्योच्छेदेन देशतो वा इत्यर्थः । एवमेवानेनैव प्रकारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं । तद्यथा - उत्तरगुणस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy