________________
उद्देशक : १, मूलं : ३२, [भा. ९१४]
इममपि पश्यामः अचारित्रपरिणामोपेतत्वेना चारित्रादुपस्थापनायोग्यं पश्याम इत्यर्थः ।
मू. (३३) भिक्खू य अन्नयरं अकिञ्चट्टाणं संवित्ता इछेजा आलोएत्तए जत्थेव अप्पणी आयरियउवज्झाए पासेज्जा, तस्संतियं आलोएज्जा पडिक्कमेज्जा निन्देज्जा गरहेजा विउट्टेज्जा विसीहज्जा अकरयाण अब्भुट्टेज्जा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा ।
मू. (३४) नीचेव अप्पणो आयरियउवज्झाएपासेज्जा, जत्थेव संभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं तस्संतियं आलोएजा जाव पडिवज्रेज्जा । नो चेव संभोइयं साहम्मियं, जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं, तस्संतियं आलोएज्जा जाव पडिवज्जेज्जा नो चेव अन्नसंभोइयं, जत्थेव सारुवियं पासेज्जा बहुस्सुयं बडभागमं तस्संतियं आलोएज्जा जातपडिवज्रेज्जा । नो चेवणंसारूवियं, जत्थेव सम्मंभावियाइं चेइ आइं पासेज्जा, तेसंतिए आलोएज्जा जाव पडिवज्रेज्जा ।
मू. (३५) नो चेव सम्मं - भावियाई, चेइआइंबहिया गामस्स वा नगरस्स वा निगमस्स वा रायहानीए वा खेरस वा कव्बडरस वा मडंबरस वा पट्टणस्स वा दोणमुहस्स वा आसमरस वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उटीणाभिमुहे वा करयल-परिग्गहियंसि सिरसावत्तं पत्थए अञ्जलिं कट्टु एवं वएज्जाः'एवइया मे अवराहा, एवइ क्खुत्तो अहं अवरद्धो,' अरहंताणं सिद्धाणं अंतिए आलोएजा जाव पडिवजासि-त्ति बेमि ।
बृ. जे भिक्खूय अन्नयरं अकिच्चट्ठाणं सेवित्ता इत्यादि । अथास्य सूत्रस्य कः सम्बन्ध उच्यते[भा. ९१५] अइयारे खलु नियमेण विगडणा एस सुत्तसंबंधो ।
किंचि न तेना चिन्नं दोन्न वि लिंगा जढा जेन ।।
२९१
बृ- इह अनन्तरसूत्रेऽतीचार उक्तः । कोऽसावतीचार इति चेदत आह- किं चेत्यादिकिंवा न तेनाचीर्णं येन द्वेपि द्रव्य भावरूपे लिङ्गे परित्यक्ते सर्वत एव तस्यातीचार इति भावः । अतीचारे च सति खलु नियमेनविकटना आलोचना भवति तदा दातव्या । तत आलोचनाप्रतिपादनार्थमेव सूत्रारंभ इति सूत्रसम्बन्धः प्रकारान्तरेण सूत्र सम्बन्धमाह
[भा. ९१६]
अहवा हेट्ठाणंतरसुत्ते आलोयणा भवे नियमा ।
इहमवि जं निमित्तं उल्लट्टो तस्स कायव्वो ।।
बू- अथवेति प्रकारान्तरे अधस्तनान्तरसूत्रे द्रव्यभावलिङ्गपरित्यागः कृतस्तन्निमित्ता नियमाद् भवत्यालोचना अन्यथा शैक्षिकोपस्थापनाया अयोगादिति प्रतिपादितं । इहापि यन्निमित्तमकृत्यं प्रतिसेवितं तस्यापवर्त्तः प्रत्यावर्त्तः कर्तव्यः । स चा लोचनामन्तरेण नेत्यालोचना प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या । भिक्षुरन्यतरत अकृत्यस्थानं सेवित्वा प्रतिसेव्य इच्छेत् आलोचयितुं । स चा लोचयितुमिच्छुर्यत्रैवात्मन आचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्तिके समीपे आलोचयेदतीचारजातं वचसा प्रकटी कुयात् प्रतिक्रामेत् मिथ्यादुष्कृतं तद्विषये दद्याद्यावत्कारणात् “निन्दिज्जा गरिहिज्जा विउट्टेज्जा विसोहिज्जा अकरणयाए अब्भुट्टेज्जा । अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जेज्जा' । इतिपरिग्रहः । तत्रनिंद्यादात्मसाक्षिकं । जुगुप्सेत् गर्हेतु गुरुसाक्षिकम् । इह निन्दनगर्हणमपि तात्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्त्तते । तत आह-विउलेज्जा इति तस्मादकृत्य प्रतिसेवनात् व्यावर्तेत निवृत्तेत, व्यावृतावपि कृतात्पापात्तदा मुच्यते, यथात्मनो विशोधिर्भवति, तत आहआत्मानं विशोधयेत्, पापमलस्फेटनतो निर्मली कुर्यात् । साच विशुद्धिरपुनः करणतायामुपसंपद्यते । ततस्तामेवा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International