________________
२९०
व्यवहार - छेदसूत्रम्-१-१/३२ साधूनां प्रत्यक्ष परोक्षं वा कुत्र कुर्यादित्याह[भा.९१०] अंतोउवस्सएछड्डणा उबहिगामपासेवा ।
बिइयं गिलाणलोए कियकम्मसरीरमादिसु ।। वृ-उपाश्रयस्यान्तमध्येलिंगस्सछड्डणा परित्यागः क्रियतेयदिवाबहिरुपाश्रयात् ।अथवाग्राममध्ये यदि वा ग्रामस्य पार्श्वे आसन्नप्रदेशेऽथवा तत्रैवाचार्यस्य समीपे इदमवधावन-काले लिङ्गस्योज्झनं अपवादतो अवधावनाभावेऽपि भवति । तथा चाह-द्वितीयपदमपवादपदं लिङ्गस्योज्झने ग्लानलोके ग्लानजने शरीरादिषु आदिशब्दादुच्चारपरिष्ठापनापरिग्रहस्तेषु कृतकर्मणि व्यापारे तथा ग्लानस्य शरीरे विश्रामणादिकमुच्चारादिपरिष्ठापनादिकंकुर्वन् खरण्टनादिभयाल्लिङ्गस्यविविक्ते प्रदेशेमोचनंभवतीति सम्प्रत्यवधावनेन लिङ्गस्योज्झने विधिविशेषमाह[भ..११] उवसामिए परेण, सयं व समुवठिएउवठवणा ।
. तक्खणा चिरकालेणव, दिठंतो अक्खभंगेण ।। वृ-उपाश्रयान्तःप्रभृतिषुयेषुस्थानेपुरजोहरणंमुक्तंतेषुस्थानेषुतेभ्यः परनिन्यान्यस्मिन्स्थाने उपशामितेपरेशोपशमनीतेस्वयं वातथाविधानुकूलकर्मोदयतः उपशमंगतेततः पुनकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वा दीर्घकालेन गुरुसमीपे समुत्थिते नियमत उपस्थापना कर्तव्या नान्यथा प्रवेशनीयः । आह, यदितेन न किञ्चिदपि प्रतिसेवितंततः कस्मादुपस्थाप्यते । अत्रसूरिराहदृष्टान्तोऽत्राक्षभङ्गेन यथा शकटस्याक्षे भग्ने नियमादन्योऽक्षः क्रियत एवं साधोरपि भावाक्षे भग्ने पुनरुत्थापनारूपोभावाक्षआधीयते अक्षोधूः पुनरपिपरः प्राह[भा.९१२] मूलगुण उत्तरगुणेअसेवमाणस्स तस्स अतियारं ।
तक्खण उवट्ठियस्स उ किंकारण दिजएमूलं ।। वृ- मूलगुण मूलगुणविषये उत्तरगुणविषये किञ्चिदम्पतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यतआह-तत्क्षणं लिङ्गोज्झनानन्तरंतत्कालमपुनः करणतयासमुत्थितस्य नभावाक्षोभग्न इति । किं कारणं तस्मै मूलं दीयते । उपस्थापना क्रियते सूरिराह[भा.९१३] सेवउमा व वयाणं, अइयारंतहवि देति सेमूलं ।
विगडासवा जलम्मिउ, कहंतुनावान वोडेजा ।। वृ. व्रतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवतां वा मा वा तथापि से तस्या प्रवचनोपनिषद्वेदिनो मूलं ददति । भावतोऽसंवृताश्रवद्धारतया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया. भावनामाह । वियडासवेत्यादिविकटानिअतिप्रकटानिस्थूराणीत्यर्थः ।आश्रवाणिजलप्रवेशस्थानानि यस्याः सा तथारूपासती नौः कथं तुजले प्रक्षिप्तान निमज्जेदितिभावः । आश्रवद्वाराणामतिप्रकटानां भावादेवं साधुरपिभावतोऽनिवारिताश्रवः सन्नशुभकर्मजले निमज्जतीतिभवतितस्योपस्थापनाहता।
अत्रैव दृष्टान्तान्तरमाह[भा.९१४] चोरिस्सामितिमतिं, जो खलुसंधाइफेडए मुद्दे ।
___ अहियंमि विसो चोरो, एमेव इमंपिपासामो ।। वृ-अहंचोरयिष्यामीतिमतिंसन्धाययःखलुमुद्रांस्फेटयतिसयद्यपितदानीमारक्षकैर्गृहीतत्वादिना कारणेन न किञ्चिदपहृतवान्तथापितत्परिणामोपेतत्वादहतेऽपिसचौरोभवति । एवमेव अनेनैव प्रकारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org