________________
२८८
व्यवहार - छंदसूत्रम् - १-१ / ३१ पुंस्त्वनिर्देशः प्राकृतत्वात्तत्र द्वितीयतृतीयचरमेषु भङ्गेषु अशिवादिगतः सन् अन्यत् गृहस्थलिङ्गं यदि वा यस्य देशस्य मध्येन यत्र वा देशे गन्तव्यं तत्र येऽतिप्रसिद्धाभिक्षुकादयस्तल्लिङ्गं करोति सम्प्रति परिहरतीति यदुक्तं तद्व्याख्यानयति
[भा. ९०१]
परिहरइ उग्गमादी विहारठाणाय तेसि लिंगीणं । अपव्वेसा गमितो आवरियत्तेतरोइमंतु ।।
वृ- परिहरति उद्गमादीन् दोषान् । तथा तेषां लिङ्गिनां यानि विहारस्थानानि तानि च परिहरति । तत्र अपूर्वेषु स्थानेषु गतः सन् यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तदा मा केनापि लिङ्गविडम्बक इति ज्ञात्वा प्रग्रह्य इति आचार्यत्वमाचार्यकं तद्ग्रंथव्याख्यातृत्वं करोति, अथेतरस्तेषामागमेष्व कुशल स्ततः स इदं करोति, तदेवाह
( भा. ९०२)
मोनेन जं च गहियं, तु कुक्कुडं उभयओ वि अविरुद्धं । पच्चयहे उपणामी, जिन पडिमाउ मणे कुणति ।।
वृ- मौनेन वाक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः । यच्च विशिष्टसम्प्रदायाद्गृहीतुं कुकुटंविद्यादिना दंभ प्रयोगलक्षणं उभवतोऽपि उभयेषामपि साधुचर्याय स्तेषां च लिङ्गिनामविरुद्धं तत्करोति । तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थं बुद्धप्रतिमानां स्तूपानां वा प्रमाणे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति । किमुक्तं भवति ? जिनप्रतिमा मनसि कृत्य तेषां प्रणामं करोति ।।
[ भा. ९०३ ]
भावेति पिंडवातित्तनेन घेत्तुं च दव्वइ अपत्ते ।
कंदादि पुग्गलाण य आकारगं एयपडिसेहो । ।
वृ तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पङ्क्त्या समुपविशति । ततः परिपाट्या परिवेषणे जाते सति अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः । अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति । अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते । ततो भिक्षुकादिभिः एव सह पङ्क्त्योपविष्टः सन् समुद्दिशति । तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति । तदा ममेदमकारकं वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः । अत्रैव पुद्गल विषयेपवादमीह
(भा. ९०४ ]
बितियपयं तु गिलाणो निक्खिव चंकमणादि कुणमाणो । लोयं वा कुणमाणो कितिकम्मं वा सरीरादी ।। वृ-द्वितीयपदमपवादपदंयदिभाण्डमात्रोपकरणानां निक्षेपमुपलक्षणमेतत् । आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चङ्क्रमणादिदिशब्दादुत्थानादिपरिग्रहः कुर्वन् यदि वा लोचं कुर्वन् अथवा कृतिकर्मशरीरादेः कुर्वन् यदि ग्लानो भवति तदोपजीव्यं पुद्गलमिति । प्रस्तुतमनुसन्धानमाह
[भा. ९०५]
अह पुन रुसेजा ही तो घेतु विगिंचए जहा विहिना ।
एवं तु तहिं जयण कुज्जाही कारणागाढो ||
.वृ- अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृह्णीयात् गृहीत्वा च यथाविधिना यथोक्ते न विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org