________________
२८७
उद्देशक ः १, मूलं : ३१, [भा. ८९७]
वृ- कलाद्वासप्ततिसंख्या लोकप्रसिद्धा तासु कलासु सर्वास्वपि सविस्तरासु आगाढप्रश्श्रेषु चात्यन्तदुर्भेदप्रश्नेषुपरिचयेषुसत्सुयोराजायत्रकलादिविशेषेसक्तआसक्तोभवति ।किमुक्तं भवति? यस्य राज्ञोयस्मिन् कलादिविशेषे अत्यन्तमभिष्ङ्गोभवतितमनुप्रवेशयेयुस्तंसम्यक् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्चराजानमुपशमयन्ति । यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपरा विरोधीपन्थामार्गउपायः । तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषे तावत्प्ररूपयन्तियावत्सार्थो लभ्यते, सार्थेचलब्धे निर्गच्छन्ति । तथा चाह[भा.८९८] अनुवसमंते निगम लिंगविवेगेन होइआगाढे ।
देसंतरसंकमणं भिक्खुगादीकुलिंगेणं ।। वृ- अनुपशमयति उपशममकुर्वति राज्ञि निर्गमो भवति, । कथमित्याह-लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिङ्गेनेत्यर्थः । अथतथापिनमुञ्चति गाढकोपावेशात्,तत आह आगाढंअत्यन्तप्रकोपतो गाढममोक्षणे भिक्षुकादिलिङ्गेन देशान्तर संक्रमणं कर्तव्यम् । अशिवादौ वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम् । तत्रतत्र येन पथा गन्तव्यंस कीगित्याह[भा.८९९] आयरियसंकमणे परिहरतिदिटुंमिजावपडिवत्ति ।
असतीएपविसणंथूमियंमिगहियंमिजा जयणा ।। वृ- आर्येन देशेन संक्रमणं तस्मिन् स्वलिङ्गेन गन्तव्यमिति वाक्यशेषः । आर्यसंक्रमणग्रहणतो भङ्गचतुष्टयं सूचितं, । तद्यथा आर्यदेश आर्यदेशमध्येन गमनमित्येको भंगः, आर्यदेशे अनार्यदेश मध्येनेति द्वितीयः, अनार्यदेशे आर्यदेशमध्येनेति तृतीयः, अनार्यदेशे अनार्यदेश मध्येनेति चतुर्थः, तत्र प्रथमभंगे अर्धषड् विंशतिजनपद मध्ये, द्वितीय भंगे आर्यदेशे मालव नामकम्लेच्छ देशमध्येन, तृतीय भंगे यथा-कुडुक्कविषये आर्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्य देशमध्येन । इह प्रथमभङ्गेऽशिवादिकारणोपस्थितौ स्वलिङ्गेन गन्तव्यम् । द्वितीय तृतीय चतुर्थभङ्गे तु परलिङ्गेन, तत्र राज्ञि प्रद्विष्टे अशिवादिकारणे वा भिक्षुकादिलिङ्गेन गच्छन् उद्गमादीन् दोषान् तेषां च लिङ्गिनामाश्रयस्थानानि परिहरति, । तथा गच्छन् यदि केनापि क्वापि ग्राम नगरादौ दृष्टो भवेत् तर्हि दृष्टे सतितेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्ति सामाचारी कर्तव्या । किमुक्तं भवति ? तत्सामाचार्यवर्तितव्यमिति । अथतदाश्रयस्थानपरिहारेण समुदानंन लभ्यतेततो असति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्तव्यम् । तत्रयदि तेषां प्रत्ययोत्पादनार्थबुद्धप्रतिमा स्तूपानि वा वन्दनीयानि भवन्ति ।तदा जिनप्रतिमांमनसिसम्प्रधार्यवन्दितव्यानि । भिक्षायांचस्वयंगन्तव्यम्। अथभिक्षानलभ्यते, ततोभिक्षुकैः सहभोक्तव्यम् । तत्रयदिपुद्गलंकन्दादिकंवा पततितदा शरीरस्येद् ममामयकारकं वैद्येन निवारितमिति प्रतिषेधयेत् । अथ कथमपि अनाभोगतस्तद्रोषभयतो वा गृहीतं भवेत्तदातस्मिन्गृहीतेयायतनासाकर्तव्या । किमुक्तं भवतिअल्पसागारिकंकथमप्यपसार्यविधिना परिष्ठापयेत् । एष गाथासंक्षेपार्थः । साम्प्रतमैनामेव गाथां विवृणोति[भा.९००) आयरिय देसायरिय लिंगसंकमो एत्थ होइचउभंगो ।
बितिय चरमेस अन्नं असिवादिगतो करे अन्नं ।। वृ-अशिवादिषुकारणेषुसमुपस्थितेषुआर्यदेशेआर्यदेशमध्येन लिङ्गेनस्वलिंगेन संक्रमो भवति,। यन्मध्येन यत्र च गन्तव्यं तयोरुभयोरपि देशयोरार्यत्वात् अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी गाथायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org