________________
२८४
व्यवहार - छेदसूत्रम्-१-१/३० त्वग्वर्त्तने शयने एतेषु क्रियमाणेषुन प्रत्युपेक्षणं करोति, नापिप्रमार्जनं करोति वा प्रत्युपेक्षणप्रमार्जन दोषदुष्टे वाकरोति, साम्प्रतमावश्यकद्वारंव्याख्यानयति- . [भा.८८५] आवस्सयं अनिययंकरेइहीनातिरित्तविवरीयं ।
गुरुवयणेणनियोगे, वलाइईणमो उओसन्नी ।। वृ-आवश्यकमनियतमनियतकालं यदिवाहीनमथवातिरिक्तविपरीतंवाकरोति, गुरुराचार्यस्तस्य वचनं गुरुवचनं तेननियोगोव्यापारणंतस्मिन् सतिसंमुखोवलति । किमुक्तंभवति? गुरुणा भिक्षादिषु नियुक्तः सन् गुरुसम्मुखमेव किञ्चिदनिष्टं भाषमाणो वलते, न गुरुवचस्तथैवानुतिष्ठति । एष देशतोऽवषन्नः अत्र प्रायश्चित्तविधिः पार्श्वस्थस्येवानुसरणीयः ।
यदुक्तं 'गुरुसम्मुखो वलते' इतितत्सविशेषं विवृणोति । [भा.८८६] जह उबइलो बलवंभंजतिसमिलंतुसोविएमेव ।
गुरुवयणंअकरेंतो वलाइकुणतीच उस्सोढुं ।। वृ-यथा बलवान् बलीवर्दः प्रेरितःसन्दुःशीलतया संमुखंव्यावर्तमानः समिलांभनक्ति । एवमेव अनेनैव प्रकारेण सोऽप्यवसन्नो गुरुवचनमकुर्वन् सम्मुखो वलतेन पुनः करोति, ततः कार्यकरो वा उत्साह्य उत्शब्दोऽत्रनिषेधार्थे असोढाइत्यर्थः । किमुक्तंभवति? गुरुसंमुखंकिञ्चिदनिष्टमुक्त्वारुषन् करोतीति उक्तो देशतोऽवसन्नः । सर्वतोऽवसन्नमाह[भा.८८७] उउबद्धपीढफलगं ओसन्नंसंजयं वियाणाहि ।
ठवयिगरइयगभोइ एमेयापडिवत्तितो ।। वृ- यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृत्संस्तारकः सोऽबद्धपीठफलकः तंसंयतंसर्वतोऽवसन्नं विजानीहि । तथायः स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भोजी रचितकं नाम कांश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्धया वैविक्त्येन स्थापितं तद्भुड्कइत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसन्नं जानीहि । एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयोवेदितव्याः ।। अधुना प्रायश्चित्तविधिमाह[भा.८८८] सामायारी वितहंओसन्नो जंच पावए जत्थ ।
संसत्तोच अलंदो नडरूवी एलगोचेव ।। वृ-सामाचारी ज्ञानादिसामाचारी कालेविनए' इत्यादिरूपांयदिवासूत्रमण्डल्यर्थमण्डल्यादिगतां सामाचारी वितथांकुर्वन् यथास्थाने यत्प्रायश्चित्तं प्राप्नोति, तत्रतस्यस्वस्थाननिष्पन्नंप्रायश्चित्तमिति गतमवसन्नसूत्रम् । सम्प्रति संसक्तसूत्रं वक्तव्यं, तच्च प्राग्वत्परिभावनीयम् । अधुना संसक्तपरूपणामाह-संसत्तोव' इत्यादिसंसक्तोऽलिंद इवनट इवबहुरूपी नटरूपीएडकइवचज्ञातव्य इतिशेषः। एतदेव व्याचिख्यासुराह[भा.८८९) गोभत्तालंदोविव बहरूवनडोव्व एलगोचेव। .
संसत्तोसो दुविहो असंकिलिट्टोव इयरोवा ।। वृ- गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्द इव । किमुक्तं भवति? । यथा अलिन्दे गोभक्तं कुकुसाओदनभिस्सटा अवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते । एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसशोभवतिसंविनेषु मिलितः संविग्नसदृशः स संसक्त इति । यथा वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org