________________
उद्देशक : १, मूलं : ३०, [भा. ८८०)
२८३
सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनं गर्भपातनमित्यादिचूर्णयोगादयश्च प्रतीताः । एतानि य उपजीवति स चरणकुशीलः । सम्प्रत्याजीवं व्याख्यानयति[भा. ८८१ ]
जाति कुले गणे या कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीवं उवजीवति जो कुसीलो उ ।।
वृ- जातिर्मातृकी, कुलं पैतृकं, गणो मल्लगणादिः । कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं, तपः श्रुते प्रतीते । एवं सप्तविधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जातिं कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्धयामल्लगणादिभ्यो गणेभ्यो वा गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयतितपसा उपजीवना तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, बहुश्रोतऽहमिति स कुशील इति । साम्प्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह
[ भा. ८८२ ]
भूतीकम्मे लहुओ लहू गुरुनिमित्तसेसए इमं तु ।
लहुगाय सयंकरणे परकरणे होत नुग्घाया ।।
वृ- भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथन चत्वारो लघुमासाः । वर्तमाननिमित्तकथने चत्वारो गुरुमासाः, शेषकेकौतुकादौ इदंप्रायश्चितं स्वयं कौतुकादिकरणे चत्वारो लघुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्धाता गुरवोमासा, मूलकर्मकरणे मूलमिति गतं कुशीलसूत्रमिदानीमवसन्नसूत्रं वक्तव्यं । तच्च प्राग्वद्भावनीयम् । सम्प्रत्यवसन्नप्ररूपणामाहवह खलु सन्नो से सव्वे य होइ नायव्वो ।
[भा. ८८३ ]
देसोसन्नी तहियं आवासाई इमो होइ ।।
-
वृ- अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा देशदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाद्यधिकृत्यायं वक्ष्यमाणो भवति । तमेवाह
[भा. ८८४]
आवस्सगसज्झाए पडिलेहणज्झाणभिक्खभत्तठे । आगम निगमने ठाणेय निसीयण तुयट्टे ।।
वृ- आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योद्यतो गाथाक्षरयोजना, भावार्थस्त्वयम्'आवश्यकमनयितकालं करोति, यदि वा हीनं हीनकार्योत्सर्गादिकरणात् अतिरिक्तं वा अनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात् । अथवा यद्दैवसिके आवश्यके कर्तव्यं तत् रात्रिके करोति, रात्रिके कर्तव्यं दैवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणं अर्थपौरुषीलक्षणं वा कुरुध्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्ठं जल्पित्वा अविप्रियेण करोति न करोति वा, सर्वथा विपरीतं वा करोति, । कालिकमुत्कालिकवेलायामुत्कालिकं वा कालवेलायां, प्रतिलेखनामपि वस्त्रादीनामावर्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालंन ध्यायतितथा भिक्षांन हिण्डते, । गुरुणा वा भिक्षां नियुक्तो गुरुसम्मुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते, तथा भक्तार्थ भक्तविषयं प्रयोजनं सम्यग् न करोति, किमुक्तं भवति न मण्डल्यां समुद्दिशति । काकशृगालादिभक्षितं वा करोति, अन्ये तु व्याचक्षते । अभत्तठत्ति अभक्तार्थग्रहणं सकलप्रत्याख़्यानोपलक्षणं तत्रायमर्थः प्रत्याख्यानं न करोति । गुरुणा वा भणितो गुरुसम्मुखं किञ्चिदनिष्ट-मुक्त्वा करोति । आगमनेनैषेधिकी न करोति निर्गमने आवश्यकी, स्थाने ऊर्ध्वस्थाने निषदने उपवेशने
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International