SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८२ व्यवहार - छंदसूत्रम् - १-१ / ३० सामान्यतः प्राह-पासत्थेत्यादि, पार्श्वस्थे यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवर्द्धितं विशेषेण वर्द्धितं जानीहि । तच्च तथैवानन्तरमुपदर्शितं, कस्माद्विवर्धितं जानीहीतिचेत् उच्यतेप्रसिद्धसेवनात् कुप्ररूपणाया बहुदोषत्वादिहपार्श्वस्थत्वं त्रयाणामपि सम्भवति । तद्यथा भिक्षोर्गणावच्छेदिन आचार्यस्य च यथाच्छन्दत्वं पुनर्भिक्षोरेव ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्रात्मकं यथाच्छन्दविषयं त्वेकस्वरूपमिति । । सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आहपासत्थे आरोवण ओहविभागेन वणिया पुव्वं । सा चेव निरवसेसा कुशीलमादीण नायव्वा ।। [भा. ८७७ ] वृ-यैव पूर्वं पार्श्वस्थे प्रायश्चित्तस्यौधेन विभागेन चारोपणाप्रदानमुपवर्णिता सैव निरवशेषा ओघेन विभागेन च ज्ञातव्या, यत्र तु विशेषः सतत्रवक्ष्यते । गतंयथाच्छन्दः सूत्रमिदानीं कुशीलसूत्रं वक्तव्यं, तच्च प्राग्वद्भावनीयम् अधुना कुशील प्ररूपणामाह [भा. ८७८ ] एतो तिविहकुसीलं तमहं वोच्छामि अहानुपुवीए । दंसणनाणचरिते तिविह कुसीलो मुनेयव्वो ।। बृ- इतो यथाच्छन्दः प्ररूपणानन्तरं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि । यथा प्रतिज्ञातमेव करोति, दंसणेत्यादि त्रिविधः कुशीलो ज्ञातव्यः । तद्यथा दर्शने ज्ञाने चारित्रे च । एतदेव व्याचिख्यासुरिदमाह [ भा. ८७९ ] नाणे नाणायारं जोउ विराहेइ कालमादीयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ।। वृ- यो ज्ञानाचारं कालादिकं कालेविनए इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति तमेवाह [ भा. ८८० ] कोउय भूतिकम्मे पसिणापसिणे निमित्तमाजीवी । कक्ककुरुयाय लक्खण मुवजीवति विज्रमंतादी ।। बृ- कौतुकं नाम आश्चर्यं यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति । नाशिकया वा तथा मुखादग्निं निष्काशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते । एतत् कौतुकं । उक्तं च-‘सोहग्गादिनिमित्तं परेसि ण्हवणादि कोउगं भणियमिति, ' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन क्षारेण रक्षाकरणं, 'जरियादिभूतिदाणं भूतीकम्मविणिदिट्ठमिति' वचनात् प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । उक्तं चसुविणगविज्जा कहियं आयं खणि घंटियादि कहियं वा । जं सीसइ अनेसिं पसिणापसिणं हवइ एयं ।। निमित्तमतीतादिभावकथनं । तथा आजीवो नाम आजीवि (व) कः । स च जात्यादिभेदतः सप्तप्रकाराः तान्, तथा कल्को नाम प्रसूत्यादिषू रोगेषु क्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरु (र) का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधना विद्या असाधनो मन्त्रः । यदि वायस्याधिष्ठात्री देवता सा विद्या यस्य पुरुषः समंत्रः आदिशब्दात् मूलकर्मचूर्णादिपरिग्रहः । तत्र मूल कर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणी करणमपुरुष द्वेषिण्याः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy